Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.193
युधिष्ठिर उवाच॥
किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते। ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह ॥१२-१९३-१॥
अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया। संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ॥१२-१९३-२॥
भीष्म उवाच॥
तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य चाभिभो। यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चार्हतः ॥१२-१९३-३॥
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः। सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्वचः ॥१२-१९३-४॥
फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम्। भवता चाभ्यनुज्ञातो जपेयं भूय एव हि ॥१२-१९३-५॥
वरश्च मम पूर्वं हि देव्या दत्तो महाबल। श्रद्धा ते जपतो नित्यं भवितेति विशां पते ॥१२-१९३-६॥
राजोवाच॥
यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव। गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ॥१२-१९३-७॥
ब्राह्मण उवाच॥
कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह। सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः ॥१२-१९३-८॥
भीष्म उवाच॥
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः। सह देवैरुपययौ लोकपालैस्तथैव च ॥१२-१९३-९॥
साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च। नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥१२-१९३-१०॥
तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती। नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः ॥१२-१९३-११॥
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः। नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ॥ विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् ॥१२-१९३-१२॥
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो। पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ॥ ननृतुश्चाप्सरःसङ्घास्तत्र तत्र समन्ततः ॥१२-१९३-१३॥
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्। संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥१२-१९३-१४॥
अथ तौ सहितौ राजन्नन्योन्येन विधानतः। विषयप्रतिसंहारमुभावेव प्रचक्रतुः ॥१२-१९३-१५॥
प्राणापानौ तथोदानं समानं व्यानमेव च। एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥१२-१९३-१६॥
उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ। कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ ॥१२-१९३-१७॥
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ। जितासनौ तथाधाय मूर्धन्यात्मानमेव च ॥१२-१९३-१८॥
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः। ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥१२-१९३-१९॥
हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत्। तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥१२-१९३-२०॥
ततः स्वागतमित्याह तत्तेजः स पितामहः। प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते ॥१२-१९३-२१॥
भूयश्चैवापरं प्राह वचनं मधुरं स्म सः। जापकैस्तुल्यफलता योगानां नात्र संशयः ॥१२-१९३-२२॥
योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम्। जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् ॥१२-१९३-२३॥
उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः। अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः ॥१२-१९३-२४॥
राजाप्येतेन विधिना भगवन्तं पितामहम्। यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥१२-१९३-२५॥
स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन्। जापकार्थमयं यत्नस्तदर्थं वयमागताः ॥१२-१९३-२६॥
कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ। योगजापकयोर्दृष्टं फलं सुमहदद्य वै ॥ सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् ॥१२-१९३-२७॥
ब्रह्मोवाच॥
महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम्। तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥१२-१९३-२८॥
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः। विधिनानेन देहान्ते मम लोकानवाप्नुयात् ॥ गम्यतां साधयिष्यामि यथास्थानानि सिद्धये ॥१२-१९३-२९॥
भीष्म उवाच॥
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत। आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् ॥१२-१९३-३०॥
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै। पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः ॥१२-१९३-३१॥
एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता। यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥१२-१९३-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.