12.198
मनुरुवाच॥
ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः। प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ॥१२-१९८-१॥
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते। तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ॥१२-१९८-२॥
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते। अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् ॥१२-१९८-३॥
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्। तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा ॥१२-१९८-४॥
मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम्। न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् ॥१२-१९८-५॥
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः। मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ॥१२-१९८-६॥
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये। तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते ॥१२-१९८-७॥
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी। व्यवसायगुणोपेता तदा सम्पद्यते मनः ॥१२-१९८-८॥
गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः। तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते ॥१२-१९८-९॥
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्। यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥१२-१९८-१०॥
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च। निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना ॥१२-१९८-११॥
गुणहीनो हि तं मार्गं बहिः समनुवर्तते। गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् ॥१२-१९८-१२॥
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते। गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ॥१२-१९८-१३॥
यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः। तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम् ॥१२-१९८-१४॥
एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः। निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च ॥१२-१९८-१५॥
पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च। अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः ॥१२-१९८-१६॥
एकस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते। द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ॥१२-१९८-१७॥
धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः। रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् ॥१२-१९८-१८॥