Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.199
मनुरुवाच॥
यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह। अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् ॥१२-१९९-१॥
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः। मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥१२-१९९-२॥
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु। तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥१२-१९९-३॥
येन येन शरीरेण यद्यत्कर्म करोत्ययम्। तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥१२-१९९-४॥
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी। तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी ॥१२-१९९-५॥
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता। अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥१२-१९९-६॥
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा। ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥१२-१९९-७॥
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा। क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् ॥१२-१९९-८॥
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः। अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः ॥१२-१९९-९॥
पृथिवीरूपतो रूपमपामिह महत्तरम्। अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥१२-१९९-१०॥
पवनाच्च महद्व्योम तस्मात्परतरं मनः। मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥१२-१९९-११॥
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत्। नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥१२-१९९-१२॥
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः। अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥१२-१९९-१३॥
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम्। तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥१२-१९९-१४॥
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम्। निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते ॥१२-१९९-१५॥
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः। जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः ॥१२-१९९-१६॥
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम्। न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ॥१२-१९९-१७॥
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते। अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः ॥१२-१९९-१८॥
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम्। अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम् ॥१२-१९९-१९॥
अदृष्टतोऽनुपायाच्च अप्यभिसन्धेश्च कर्मणः। न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् ॥१२-१९९-२०॥
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात्। मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥१२-१९९-२१॥
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः। परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥१२-१९९-२२॥
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान्। अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह ॥१२-१९९-२३॥
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः। मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥१२-१९९-२४॥
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः। मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते ॥१२-१९९-२५॥
बुद्धिप्रहीणो मनसासमृद्ध; स्तथा निराशीर्गुणतामुपैति। परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम् ॥१२-१९९-२६॥
गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम्। अनेनैव विधिना सम्प्रवृत्तो; गुणादाने ब्रह्मशरीरमेति ॥१२-१९९-२७॥
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले। तैरेवायं चेन्द्रियैर्वर्धमानै; र्ग्लायद्भिर्वा वर्तते कर्मरूपः ॥१२-१९९-२८॥
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात्। नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन ॥१२-१९९-२९॥
पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि। परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम् ॥१२-१९९-३०॥
दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः। तथा ह्यसौ मुनिरिह निर्विशेषवा; न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥१२-१९९-३१॥
अनागतिं सुकृतिमतां परां गतिं; स्वयम्भुवं प्रभवनिधानमव्ययम्। सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते ॥१२-१९९-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.