12.200
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्। कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥१२-२००-१॥
नारायणं हृषीकेशं गोविन्दमपराजितम्। तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥१२-२००-२॥
भीष्म उवाच॥
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥१२-२००-३॥
असितो देवलस्तात वाल्मीकिश्च महातपाः। मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥१२-२००-४॥
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः। पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥१२-२००-५॥
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः। माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥१२-२००-६॥
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः। अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥१२-२००-७॥
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः। वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ॥१२-२००-८॥
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः। अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥१२-२००-९॥
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे। सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत् ॥१२-२००-१०॥
आश्रयं सर्वभूतानां मनसेति विशुश्रुम। स धारयति भूतात्मा उभे भूतभविष्यती ॥१२-२००-११॥
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि। भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥१२-२००-१२॥
स तत्र भगवान्देवः पुष्करे भासयन्दिशः। ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥१२-२००-१३॥
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि। तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥१२-२००-१४॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्। ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥१२-२००-१५॥
तस्य तात वधात्सर्वे देवदानवमानवाः। मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥१२-२००-१६॥
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान्। मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥१२-२००-१७॥
मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम्। मानसं जनयामास तैजसं ब्रह्मसत्तमम् ॥१२-२००-१८॥
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम्। सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥१२-२००-१९॥
तस्य पूर्वमजायन्त दश तिस्रश्च भारत। प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ॥१२-२००-२०॥
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः। मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥१२-२००-२१॥
उत्पाद्य तु महाभागस्तासामवरजा दश। ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥१२-२००-२२॥
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः। विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥१२-२००-२३॥
अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः। सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥१२-२००-२४॥
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान्। गाश्च किम्पुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ॥१२-२००-२५॥
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्। तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥१२-२००-२६॥
तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत। दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥१२-२००-२७॥
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः। दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ॥१२-२००-२८॥
अहोरात्रं च कालं च यथर्तु मधुसूदनः। पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥१२-२००-२९॥
बुद्द्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्। पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ॥१२-२००-३०॥
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर। ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ॥१२-२००-३१॥
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम्। पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥१२-२००-३२॥
स एवं चतुरो वर्णान्समुत्पाद्य महायशाः। अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ॥१२-२००-३३॥
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्। तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥१२-२००-३४॥
न चैषां मैथुनो धर्मो बभूव भरतर्षभ। सङ्कल्पादेव चैतेषामपत्यमुदपद्यत ॥१२-२००-३५॥
तत्र त्रेतायुगे काले सङ्कल्पाज्जायते प्रजा। न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥१२-२००-३६॥
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप। तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ॥१२-२००-३७॥
एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः। निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि ॥१२-२००-३८॥
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः। उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ॥१२-२००-३९॥
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि। यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ॥१२-२००-४०॥
एते पापकृतस्तात चरन्ति पृथिवीमिमाम्। श्वकाकबलगृध्राणां सधर्माणो नराधिप ॥१२-२००-४१॥
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्। त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ॥१२-२००-४२॥
ततस्तस्मिन्महाघोरे सन्ध्याकाले युगान्तिके। राजानः समसज्जन्त समासाद्येतरेतरम् ॥१२-२००-४३॥
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः। देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् ॥१२-२००-४४॥
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप। शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥१२-२००-४५॥
एवमेष महाबाहुः केशवः सत्यविक्रमः। अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥१२-२००-४६॥