12.209
गुरुरुवाच॥
निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा। निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता ॥१२-२०९-१॥
स्वप्ने हि रजसा देही तमसा चाभिभूयते। देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥१२-२०९-२॥
ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम्। विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा ॥१२-२०९-३॥
अत्राह को न्वयं भावः स्वप्ने विषयवानिव। प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥१२-२०९-४॥
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः। तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥१२-२०९-५॥
इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः। मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् ॥१२-२०९-६॥
कार्यव्यासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि। यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् ॥१२-२०९-७॥
संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुयात्। मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ॥१२-२०९-८॥
गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम्। तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥१२-२०९-९॥
ततस्तमुपवर्तन्ते गुणा राजसतामसाः। सात्त्विको वा यथायोगमानन्तर्यफलोदयः ॥१२-२०९-१०॥
ततः पश्यत्यसम्बद्धान्वातपित्तकफोत्तरान्। रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम् ॥१२-२०९-११॥
प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम्। तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते ॥१२-२०९-१२॥
व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः। मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम् ॥१२-२०९-१३॥
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम्। सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः ॥१२-२०९-१४॥
लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम्। आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥१२-२०९-१५॥
एवं हि तपसा युक्तमर्कवत्तमसः परम्। त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् ॥१२-२०९-१६॥
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः। एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥१२-२०९-१७॥
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः। सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥१२-२०९-१८॥
ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम्। ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥१२-२०९-१९॥
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा। प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥१२-२०९-२०॥