12.208
गुरुरुवाच॥
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः। ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥१२-२०८-१॥
जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः। दृष्ट्वेमं सन्ततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥१२-२०८-२॥
वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहङ्कृतः। प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥१२-२०८-३॥
अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया। अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥१२-२०८-४॥
यत्कृतं प्राक्षुभं कर्म पापं वा तदुपाश्नुते। तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः ॥१२-२०८-५॥
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्। क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥१२-२०८-६॥
यश्चैनं परमं धर्मं सर्वभूतसुखावहम्। दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् ॥१२-२०८-७॥
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत्। नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥१२-२०८-८॥
अवाग्योगप्रयोगेण मनोज्ञं सम्प्रवर्तते। विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ॥ सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥१२-२०८-९॥
कल्कापेतामपरुषामनृशंसामपैशुनाम्। ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥१२-२०८-१०॥
वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि। बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् ॥ रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते ॥१२-२०८-११॥
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते। तस्मान्मनोवाक्षरीरैराचरेद्धैर्यमात्मनः ॥१२-२०८-१२॥
प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः। प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा ॥१२-२०८-१३॥
तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम्। तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् ॥१२-२०८-१४॥
निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः। विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥१२-२०८-१५॥
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्। निष्प्रचारेण मनसा परं तदधिगच्छति ॥१२-२०८-१६॥
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम्। मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः ॥१२-२०८-१७॥
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे। देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ॥१२-२०८-१८॥
ताभिः संसक्तमनसो ब्रह्मवत्सम्प्रकाशते। एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते ॥१२-२०८-१९॥
अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्। येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् ॥१२-२०८-२०॥
कणपिण्याककुल्माषशाकयावकसक्तवः। तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् ॥१२-२०८-२१॥
आहारं नियतं चैव देशे काले च सात्त्विकम्। तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥१२-२०८-२२॥
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्। ज्ञानेन्धितं ततो ज्ञानमर्कवत्सम्प्रकाशते ॥१२-२०८-२३॥
ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति। विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते ॥१२-२०८-२४॥
पृथक्त्वात्सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम्। स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥१२-२०८-२५॥
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्। अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥१२-२०८-२६॥