12.210
गुरुरुवाच॥
न स वेद परं धर्मं यो न वेद चतुष्टयम्। व्यक्ताव्यक्ते च यत्तत्त्वं सम्प्राप्तं परमर्षिणा ॥१२-२१०-१॥
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम्। प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥१२-२१०-२॥
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्। निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥१२-२१०-३॥
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्। प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥१२-२१०-४॥
तां गतिं परमामेति निवृत्तिपरमो मुनिः। ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥१२-२१०-५॥
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ। अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥१२-२१०-६॥
तं विशेषमवेक्षेत विशेषेण विचक्षणः। अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥१२-२१०-७॥
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ। सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥१२-२१०-८॥
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया। विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् ॥१२-२१०-९॥
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्। अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ ॥१२-२१०-१०॥
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया। करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ॥ कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेषोऽप्यसाविति ॥१२-२१०-११॥
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः। संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥१२-२१०-१२॥
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम्। यथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ॥१२-२१०-१३॥
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः। शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥१२-२१०-१४॥
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता। सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥१२-२१०-१५॥
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः। रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ॥१२-२१०-१६॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते। वाङ्मनोनियमः साम्यं मानसं तप उच्यते ॥१२-२१०-१७॥
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते। आहारनियमेनास्य पाप्मा नश्यति राजसः ॥१२-२१०-१८॥
वैमनस्यं च विषये यान्त्यस्य करणानि च। तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥१२-२१०-१९॥
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः। एवं युक्तेन मनसा ज्ञानं तदुपपद्यते ॥१२-२१०-२०॥
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत्। कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ॥ आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ॥१२-२१०-२१॥
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा। परप्रत्ययसर्गे तु नियतं नातिवर्तते ॥१२-२१०-२२॥
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम्। धृत्या देहान्धारयन्तो बुद्धिसङ्क्षिप्तमानसाः ॥ स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते ॥१२-२१०-२३॥
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते। देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ॥ युक्तो धारणया कश्चित्सत्तां केचिदुपासते ॥१२-२१०-२४॥
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम्। अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः ॥१२-२१०-२५॥
सर्व एते महात्मानो गच्छन्ति परमां गतिम्। सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ॥१२-२१०-२६॥
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम्। अन्तरिक्षादन्यतरं धारणासक्तमानसम् ॥१२-२१०-२७॥
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः। ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ॥१२-२१०-२८॥
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम्। ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम् ॥१२-२१०-२९॥
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम्। भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥१२-२१०-३०॥
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः। प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥१२-२१०-३१॥
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च। तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥१२-२१०-३२॥
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे। तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥१२-२१०-३३॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः। तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते ॥१२-२१०-३४॥
विकारं प्रकृतिं चैव पुरुषं च सनातनम्। यो यथावद्विजानाति स वितृष्णो विमुच्यते ॥१२-२१०-३५॥
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्। भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥१२-२१०-३६॥