12.213
युधिष्ठिर उवाच॥
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते। किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥१२-२१३-१॥
भीष्म उवाच॥
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः। सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ॥१२-२१३-२॥
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते। क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम् ॥१२-२१३-३॥
दमस्तेजो वर्धयति पवित्रं दम उच्यते। विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् ॥१२-२१३-४॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुखं लोके विपर्येति मनश्चास्य प्रसीदति ॥१२-२१३-५॥
तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति। अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ॥१२-२१३-६॥
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्। तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा ॥१२-२१३-७॥
आश्रमेषु च सर्वेषु दम एव विशिष्यते। यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते ॥१२-२१३-८॥
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः। अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥१२-२१३-९॥
अक्रोध आर्जवं नित्यं नातिवादो न मानिता। गुरुपूजानसूया च दया भूतेष्वपैशुनम् ॥१२-२१३-१०॥
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्। साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु ॥१२-२१३-११॥
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः। सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मवान्बुधः ॥ प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ॥१२-२१३-१२॥
सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम्। महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति ॥१२-२१३-१३॥
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः। नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् ॥१२-२१३-१४॥
न हृष्यति महत्यर्थे व्यसने च न शोचति। स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते ॥१२-२१३-१५॥
कर्मभिः श्रुतसम्पन्नः सद्भिराचरितैः शुभैः। सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम् ॥१२-२१३-१६॥
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता। सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ॥१२-२१३-१७॥
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः। विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः ॥ कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥१२-२१३-१८॥