12.214
युधिष्ठिर उवाच॥
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः। अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥१२-२१४-१॥
भीष्म उवाच॥
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः। वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥१२-२१४-२॥
युधिष्ठिर उवाच॥
यदिदं तप इत्याहुरुपवासं पृथग्जनाः। एतत्तपो महाराज उताहो किं तपो भवेत् ॥१२-२१४-३॥
भीष्म उवाच॥
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः। आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम् ॥ त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् ॥१२-२१४-४॥
सदोपवासी च भवेद्ब्रह्मचारी सदैव च। मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत् ॥१२-२१४-५॥
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत। अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत् ॥१२-२१४-६॥
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः। विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः ॥१२-२१४-७॥
युधिष्ठिर उवाच॥
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत्। विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ॥१२-२१४-८॥
भीष्म उवाच॥
अन्तरा प्रातराशं च सायमाशं तथैव च। सदोपवासी च भवेद्यो न भुङ्क्ते कथञ्चन ॥१२-२१४-९॥
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः। ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः ॥१२-२१४-१०॥
अभक्षयन्वृथामांसममांसाशी भवत्युत। दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन् ॥१२-२१४-११॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह। अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर ॥१२-२१४-१२॥
अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः। अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥१२-२१४-१३॥
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह। अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥१२-२१४-१४॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह। उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ॥१२-२१४-१५॥
देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते। रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥१२-२१४-१६॥