Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.212
भीष्म उवाच॥
जनको जनदेवस्तु ज्ञापितः परमर्षिणा। पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ॥१२-२१२-१॥
भगवन्यदिदं प्रेत्य सञ्ज्ञा भवति कस्यचित्। एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥१२-२१२-२॥
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम। अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥१२-२१२-३॥
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु। कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः ॥१२-२१२-४॥
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्। पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥१२-२१२-५॥
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते। अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ॥ वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥१२-२१२-६॥
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः। ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥१२-२१२-७॥
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम्। एष पञ्चसमाहारः शरीरमिति नैकधा ॥ ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसङ्ग्रहः ॥१२-२१२-८॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः। प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥१२-२१२-९॥
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च। इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः ॥१२-२१२-१०॥
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा। सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥१२-२१२-११॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ। एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥१२-२१२-१२॥
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः। तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥१२-२१२-१३॥
इमं गुणसमाहारमात्मभावेन पश्यतः। असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥१२-२१२-१४॥
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि। वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः ॥१२-२१२-१५॥
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम्। शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥१२-२१२-१६॥
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम्। नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥१२-२१२-१७॥
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि। सुखत्यागे तपोयोगः सर्वत्यागे समापना ॥१२-२१२-१८॥
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः। विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ॥१२-२१२-१९॥
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि। मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ॥१२-२१२-२०॥
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्। प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ॥१२-२१२-२१॥
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः। एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ॥१२-२१२-२२॥
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसङ्ग्रहे। तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥१२-२१२-२३॥
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये। येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ॥१२-२१२-२४॥
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः। त्रिविधा वेदना येषु प्रसूता सर्वसाधना ॥१२-२१२-२५॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता। अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥१२-२१२-२६॥
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा। लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥१२-२१२-२७॥
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता। कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥१२-२१२-२८॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥१२-२१२-२९॥
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः। प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ॥१२-२१२-३०॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्। अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥१२-२१२-३१॥
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः। नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥१२-२१२-३२॥
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥१२-२१२-३३॥
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति। चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥१२-२१२-३४॥
तेषामयुगपद्भावे उच्छेदो नास्ति तामसः। आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥१२-२१२-३५॥
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम्। चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥१२-२१२-३६॥
यत्तमोपहतं चित्तमाशु सञ्चारमध्रुवम्। करोत्युपरमं काले तदाहुस्तामसं सुखम् ॥१२-२१२-३७॥
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति। अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥१२-२१२-३८॥
एवमेष प्रसङ्ख्यातः स्वकर्मप्रत्ययी गुणः। कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्वा न वर्तते ॥१२-२१२-३९॥
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः। स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥१२-२१२-४०॥
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्। स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥१२-२१२-४१॥
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च। न च स्वतां नियच्छन्ति तादृशः सत्त्वसङ्क्षयः ॥१२-२१२-४२॥
एवं सति कुतः सञ्ज्ञा प्रेत्यभावे पुनर्भवेत्। प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥१२-२१२-४३॥
इमां तु यो वेद विमोक्षबुद्धि; मात्मानमन्विच्छति चाप्रमत्तः। न लिप्यते कर्मफलैरनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम् ॥१२-२१२-४४॥
दृढैश्च पाशैर्बहुभिर्विमुक्तः; प्रजानिमित्तैरपि दैवतैश्च। यदा ह्यसौ सुखदुःखे जहाति; मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥ श्रुतिप्रमाणागममङ्गलैश्च; शेते जरामृत्युभयादतीतः ॥१२-२१२-४५॥
क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे। अलेपमाकाशमलिङ्गमेव; मास्थाय पश्यन्ति महद्ध्यसक्ताः ॥१२-२१२-४६॥
यथोर्णनाभिः परिवर्तमान; स्तन्तुक्षये तिष्ठति पात्यमानः। तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिमर्च्छन् ॥१२-२१२-४७॥
यथा रुरुः शृङ्गमथो पुराणं; हित्वा त्वचं वाप्युरगो यथावत्। विहाय गच्छत्यनवेक्षमाण; स्तथा विमुक्तो विजहाति दुःखम् ॥१२-२१२-४८॥
द्रुमं यथा वाप्युदके पतन्त; मुत्सृज्य पक्षी प्रपतत्यसक्तः। तथा ह्यसौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ॥१२-२१२-४९॥
अपि च भवति मैथिलेन गीतं; नगरमुपाहितमग्निनाभिवीक्ष्य। न खलु मम तुषोऽपि दह्यतेऽत्र; स्वयमिदमाह किल स्म भूमिपालः ॥१२-२१२-५०॥
इदममृतपदं विदेहराजः; स्वयमिह पञ्चशिखेन भाष्यमाणः। निखिलमभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः ॥१२-२१२-५१॥
इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततमवेक्षते तथा। उपद्रवान्नानुभवत्यदुःखितः; प्रमुच्यते कपिलमिवैत्य मैथिलः ॥१२-२१२-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.