Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.215
युधिष्ठिर उवाच॥
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम्। पुरुषं योजयत्येव फलयोगेन भारत ॥१२-२१५-१॥
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः। एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥१२-२१५-२॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥१२-२१५-३॥
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्। अस्तम्भमनहङ्कारं सत्त्वस्थं समये रतम् ॥१२-२१५-४॥
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम्। चराचराणां भूतानां विदितप्रभवाप्ययम् ॥१२-२१५-५॥
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च। काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् ॥१२-२१५-६॥
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम्। परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् ॥१२-२१५-७॥
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम्। बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥१२-२१५-८॥
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु। भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥१२-२१५-९॥
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह। आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥१२-२१५-१०॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः। श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि ॥१२-२१५-११॥
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया। प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥१२-२१५-१२॥
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः। उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥१२-२१५-१३॥
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते। तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥१२-२१५-१४॥
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च। सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते ॥१२-२१५-१५॥
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः। स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह ॥१२-२१५-१६॥
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः। तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः ॥१२-२१५-१७॥
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्। आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् ॥१२-२१५-१८॥
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च। लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥१२-२१५-१९॥
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च। अप्रयत्नेन पश्यामः केषाञ्चित्तत्स्वभावतः ॥१२-२१५-२०॥
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः। विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥१२-२१५-२१॥
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा। शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥१२-२१५-२२॥
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः। आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा ॥१२-२१५-२३॥
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम्। कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥१२-२१५-२४॥
यथा वेदयते कश्चिदोदनं वायसो वदन्। एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥१२-२१५-२५॥
विकारानेव यो वेद न वेद प्रकृतिं पराम्। तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥१२-२१५-२६॥
स्वभावभाविनो भावान्सर्वानेवेह निश्चये। बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥१२-२१५-२७॥
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्। तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥१२-२१५-२८॥
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः। स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥१२-२१५-२९॥
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः। नायासो विद्यते शक्र पश्यतो लोकविद्यया ॥१२-२१५-३०॥
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे। द्वेष्टारं न च पश्यामि यो ममाद्य ममायते ॥१२-२१५-३१॥
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये। न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते ॥१२-२१५-३२॥
शक्र उवाच॥
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते। प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते ॥१२-२१५-३३॥
प्रह्राद उवाच॥
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया। वृद्धशुश्रूषया शक्र पुरुषो लभते महत् ॥१२-२१५-३४॥
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः। स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि ॥१२-२१५-३५॥
भीष्म उवाच॥
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्। प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥१२-२१५-३६॥
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः। असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥१२-२१५-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.