Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.216
युधिष्ठिर उवाच॥
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम्। कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥१२-२१६-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वासवस्य च संवादं बलेर्वैरोचनस्य च ॥१२-२१६-२॥
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः। सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥१२-२१६-३॥
यस्य स्म ददतो वित्तं न कदाचन हीयते। तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥१२-२१६-४॥
स एव ह्यस्तमयते स स्म विद्योतते दिशः। स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ॥ तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥१२-२१६-५॥
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः। सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ॥ तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥१२-२१६-६॥
ब्रह्मोवाच॥
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि। पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥१२-२१६-७॥
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः। वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥१२-२१६-८॥
शक्र उवाच॥
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान्। हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥१२-२१६-९॥
ब्रह्मोवाच॥
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति। न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥१२-२१६-१०॥
भीष्म उवाच॥
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा। चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥१२-२१६-११॥
ततो ददर्श स बलिं खरवेषेण संवृतम्। यथाख्यातं भगवता शून्यागारकृतालयम् ॥१२-२१६-१२॥
शक्र उवाच॥
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव। इयं ते योनिरधमा शोचस्याहो न शोचसि ॥१२-२१६-१३॥
अदृष्टं बत पश्यामि द्विषतां वशमागतम्। श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ॥१२-२१६-१४॥
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः। लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥१२-२१६-१५॥
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने। अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ॥ इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ॥१२-२१६-१६॥
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन्। ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ॥१२-२१६-१७॥
यत्ते सहस्रसमिता ननृतुर्देवयोषितः। बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ॥१२-२१६-१८॥
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः। कथमद्य तदा चैव मनस्ते दानवेश्वर ॥१२-२१६-१९॥
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम्। ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ॥१२-२१६-२०॥
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः। यत्राददः सहस्राणामयुतानि गवां दश ॥१२-२१६-२१॥
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः। शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ॥१२-२१६-२२॥
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च। ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥१२-२१६-२३॥
बलिरुवाच॥
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च। ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥१२-२१६-२४॥
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि। यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥१२-२१६-२५॥
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा। समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥१२-२१६-२६॥
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु। कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥१२-२१६-२७॥
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे। यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ॥१२-२१६-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.