12.225
व्यास उवाच॥
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च। तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥१२-२२५-१॥
ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा। अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ॥१२-२२५-२॥
भूमेरपि गुणं गन्धमाप आददते यदा। आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥१२-२२५-३॥
आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः। सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ॥१२-२२५-४॥
अपामपि गुणांस्तात ज्योतिराददते यदा। आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च ॥१२-२२५-५॥
यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः। सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः ॥१२-२२५-६॥
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा। प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ॥१२-२२५-७॥
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः। अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥१२-२२५-८॥
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा। प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥१२-२२५-९॥
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः। मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसञ्चरः ॥१२-२२५-१०॥
तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः। मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते ॥१२-२२५-११॥
तं तु कालेन महता सङ्कल्पः कुरुते वशे। चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम् ॥१२-२२५-१२॥
कालो गिरति विज्ञानं कालो बलमिति श्रुतिः। बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥१२-२२५-१३॥
आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि। तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् ॥ एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसञ्चरः ॥१२-२२५-१४॥
यथावत्कीर्तितं सम्यगेवमेतदसंशयम्। बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ॥१२-२२५-१५॥
एवं विस्तारसङ्क्षेपौ ब्रह्माव्यक्ते पुनः पुनः। युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च ॥१२-२२५-१६॥