12.224
युधिष्ठिर उवाच॥
आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव। ध्यानं कर्म च कालं च तथैवायुर्युगे युगे ॥१२-२२४-१॥
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्। सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥१२-२२४-२॥
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर। एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥१२-२२४-३॥
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्। भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥१२-२२४-४॥
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता। ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥१२-२२४-५॥
भीष्म उवाच॥
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥१२-२२४-६॥
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा। अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥१२-२२४-७॥
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः। पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम् ॥१२-२२४-८॥
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्। ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥१२-२२४-९॥
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते। अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥१२-२२४-१०॥
अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्। अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत ॥१२-२२४-११॥
काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम्। त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात् ॥१२-२२४-१२॥
त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च सङ्ख्या मुनिभिः प्रणीता। मासः स्मृतो रात्र्यहनी च त्रिंश; त्संवत्सरो द्वादशमास उक्तः ॥ संवत्सरं द्वे अयने वदन्ति; सङ्ख्याविदो दक्षिणमुत्तरं च ॥१२-२२४-१३॥
अहोरात्रे विभजते सूर्यो मानुषलौकिके। रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥१२-२२४-१४॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः। कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी ॥१२-२२४-१५॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः। अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥१२-२२४-१६॥
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके। तयोः सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे ॥१२-२२४-१७॥
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः। कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥१२-२२४-१८॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१२-२२४-१९॥
इतेरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु। एकापायेन संयान्ति सहस्राणि शतानि च ॥१२-२२४-२०॥
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्। एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ॥१२-२२४-२१॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे। नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते ॥१२-२२४-२२॥
इतेरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते। चौरिकानृतमायाभिरधर्मश्चोपचीयते ॥१२-२२४-२३॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः। कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः ॥१२-२२४-२४॥
वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम्। आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥१२-२२४-२५॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे। अन्ये कलियुगे धर्मा यथाशक्तिकृता इव ॥१२-२२४-२६॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्। द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥१२-२२४-२७॥
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः। सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते ॥१२-२२४-२८॥
रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः। प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते ॥१२-२२४-२९॥
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१२-२२४-३०॥
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये। सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥१२-२२४-३१॥
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्। एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥१२-२२४-३२॥
अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत्। अग्र एव महाभूतमाशु व्यक्तात्मकं मनः ॥१२-२२४-३३॥
अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान्। दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥१२-२२४-३४॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया। आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः ॥१२-२२४-३५॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः। बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥१२-२२४-३६॥
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम्। रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते ॥१२-२२४-३७॥
ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः। अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते ॥१२-२२४-३८॥
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्। तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् ॥१२-२२४-३९॥
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात्। पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् ॥१२-२२४-४०॥
एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक्। नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः ॥१२-२२४-४१॥
ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः। शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥१२-२२४-४२॥
श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम्। तदाविशन्ति भूतानि महान्ति सह कर्मणा ॥१२-२२४-४३॥
सर्वभूतानि चादाय तपसश्चरणाय च। आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥१२-२२४-४४॥
स वै सृजति भूतानि स एव पुरुषः परः। अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ॥१२-२२४-४५॥
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन्। नरकिंनररक्षांसि वयःपशुमृगोरगान् ॥ अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥१२-२२४-४६॥
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥१२-२२४-४७॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते। अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते ॥१२-२२४-४८॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु। विनियोगं च भूतानां धातैव विदधात्युत ॥१२-२२४-४९॥
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः। दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥१२-२२४-५०॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः। त्रय एतेऽपृथग्भूता नविवेकं तु केचन ॥१२-२२४-५१॥
एवमेतच्च नैवं च यद्भूतं सृजते जगत्। कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥१२-२२४-५२॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः। तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥१२-२२४-५३॥
तपसा तदवाप्नोति यद्भूतं सृजते जगत्। स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥१२-२२४-५४॥
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्। अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ॥१२-२२४-५५॥
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः। शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः ॥१२-२२४-५६॥
नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः। आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥१२-२२४-५७॥
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः। तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥१२-२२४-५८॥
कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः। आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् ॥१२-२२४-५९॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥१२-२२४-६०॥
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा। परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥१२-२२४-६१॥
त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे। द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥१२-२२४-६२॥
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च। काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च ॥१२-२२४-६३॥
त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः। संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥१२-२२४-६४॥
त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च। संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥१२-२२४-६५॥
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः। उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः ॥१२-२२४-६६॥
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते। आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥१२-२२४-६७॥
अधर्मव्रतसंयोगं यथाधर्मं युगे युगे। विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् ॥१२-२२४-६८॥
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि। सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे ॥१२-२२४-६९॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥१२-२२४-७०॥
विहितं कालनानात्वमनादिनिधनं तथा। कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः ॥१२-२२४-७१॥
दधाति प्रभवे स्थानं भूतानां संयमो यमः। स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः ॥१२-२२४-७२॥
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम्। प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥१२-२२४-७३॥
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि। यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥१२-२२४-७४॥
दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा। सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥१२-२२४-७५॥