12.226
व्यास उवाच॥
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया। ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते ॥१२-२२६-१॥
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्। क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे ॥१२-२२६-२॥
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः। गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥१२-२२६-३॥
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्। आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ॥१२-२२६-४॥
प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः। वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥१२-२२६-५॥
गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते। तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥१२-२२६-६॥
प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः। अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः ॥१२-२२६-७॥
यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत्। यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥१२-२२६-८॥
तपसा वा सुमहता विद्यानां पारणेन वा। इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥१२-२२६-९॥
यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी। तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ॥१२-२२६-१०॥
अध्यापयेदधीयीत याजयेत यजेत च। न वृथा प्रतिगृह्णीयान्न च दद्यात्कथञ्चन ॥१२-२२६-११॥
याज्यतः शिष्यतो वापि कन्यया वा धनं महत्। यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथञ्चन ॥१२-२२६-१२॥
गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात्। देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥१२-२२६-१३॥
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्। द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि ॥१२-२२६-१४॥
अर्हतामनुरूपाणां नादेयं ह्यस्ति किञ्चन। उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः ॥१२-२२६-१५॥
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः। स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥१२-२२६-१६॥
रन्तिदेवश्च साङ्कृत्यो वसिष्ठाय महात्मने। अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥१२-२२६-१७॥
आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम्। दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥१२-२२६-१८॥
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्। ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥१२-२२६-१९॥
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके। ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥१२-२२६-२०॥
दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत्। छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम् ॥१२-२२६-२१॥
साङ्कृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्। उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥१२-२२६-२२॥
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्। अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् ॥१२-२२६-२३॥
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः। ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥१२-२२६-२४॥
सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः। रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥१२-२२६-२५॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम्। ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ॥१२-२२६-२६॥
अवर्षति च पर्जन्ये सर्वभूतानि चासकृत्। वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥१२-२२६-२७॥
करन्धमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा। कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥१२-२२६-२८॥
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः। निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥१२-२२६-२९॥
राजा मित्रसहश्चापि वसिष्ठाय महात्मने। मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥१२-२२६-३०॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः। ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥१२-२२६-३१॥
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम्। मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥१२-२२६-३२॥
नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान्। दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥१२-२२६-३३॥
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्। हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥१२-२२६-३४॥
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः। ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥१२-२२६-३५॥
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्। सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥१२-२२६-३६॥
एते चान्ये च बहवो दानेन तपसा च ह। महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥१२-२२६-३७॥
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी। दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥१२-२२६-३८॥