12.228
व्यास उवाच॥
अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा। उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥१२-२२८-१॥
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः। नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन ॥१२-२२८-२॥
छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश। दशकर्मसुखानर्थानुपायापायनिर्भयः ॥१२-२२८-३॥
चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च। यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ॥ ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ॥१२-२२८-४॥
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः। यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः ॥१२-२२८-५॥
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः। यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता ॥१२-२२८-६॥
तरत्येव महादुर्गं जरामरणसागरम्। एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः ॥ अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते ॥१२-२२८-७॥
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः। अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः ॥१२-२२८-८॥
चेतनाबन्धुरश्चारुराचारग्रहनेमिवान्। दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥१२-२२८-९॥
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः। क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ॥१२-२२८-१०॥
त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः। जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ॥१२-२२८-११॥
अथ सन्त्वरमाणस्य रथमेतं युयुक्षतः। अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥१२-२२८-१२॥
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते। पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः ॥१२-२२८-१३॥
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः। ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः ॥१२-२२८-१४॥
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते। विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ॥१२-२२८-१५॥
अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः। निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् ॥१२-२२८-१६॥
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः। तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ॥१२-२२८-१७॥
अथ धूमस्य विरमे द्वितीयं रूपदर्शनम्। जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ॥१२-२२८-१८॥
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते। तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते ॥ ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते ॥१२-२२८-१९॥
अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः। अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै ॥१२-२२८-२०॥
एतेष्वपि हि जातेषु फलजातानि मे शृणु। जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते ॥१२-२२८-२१॥
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः। अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥१२-२२८-२२॥
पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः। आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति ॥१२-२२८-२३॥
वर्णतो गृह्यते चापि कामात्पिबति चाशयान्। न चास्य तेजसा रूपं दृश्यते शाम्यते तथा ॥१२-२२८-२४॥
अहङ्कारस्य विजितेः पञ्चैते स्युर्वशानुगाः। षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ॥१२-२२८-२५॥
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते। तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ॥१२-२२८-२६॥
यतो निःसरते लोको भवति व्यक्तसञ्ज्ञकः। तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे ॥ तथा व्यक्तमयीं चैव सङ्ख्यां पूर्वं निबोध मे ॥१२-२२८-२७॥
पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम्। योगे साङ्ख्येऽपि च तथा विशेषांस्तत्र मे शृणु ॥१२-२२८-२८॥
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्। जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥१२-२२८-२९॥
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्। द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥१२-२२८-३०॥
चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते। व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् ॥ सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् ॥१२-२२८-३१॥
द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः। विषयात्प्रतिसंहारः साङ्ख्यानां सिद्धिलक्षणम् ॥१२-२२८-३२॥
निर्ममश्चानहङ्कारो निर्द्वंद्वश्छिन्नसंशयः। नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥१२-२२८-३३॥
आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम्। वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥१२-२२८-३४॥
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते। नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥१२-२२८-३५॥
अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः। नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः ॥ अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ॥१२-२२८-३६॥
अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे। योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥१२-२२८-३७॥
इत्येषा भावजा बुद्धिः कथिता ते न संशयः। एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति ॥१२-२२८-३८॥