Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.229
व्यास उवाच॥
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः। उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् ॥१२-२२९-१॥
शुक उवाच॥
किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम्। प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥१२-२२९-२॥
व्यास उवाच॥
यस्तु पश्येत्स्वभावेन विना भावमचेतनः। पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥१२-२२९-३॥
येषां चैकान्तभावेन स्वभावः कारणं मतम्। पूत्वा तृणबुसीकां वै ते लभन्ते न किञ्चन ॥१२-२२९-४॥
ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः। स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥१२-२२९-५॥
स्वभावो हि विनाशाय मोहकर्ममनोभवः। निरुक्तमेतयोरेतत्स्वभावपरभावयोः ॥१२-२२९-६॥
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च। प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च ॥१२-२२९-७॥
आक्रीडानां गृहाणां च गदानामगदस्य च। प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ॥१२-२२९-८॥
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति। राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥१२-२२९-९॥
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते। विद्यया तात सृष्टानां विद्यैव परमा गतिः ॥१२-२२९-१०॥
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्। जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत् ॥१२-२२९-११॥
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत्। उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः ॥१२-२२९-१२॥
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च। बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥१२-२२९-१३॥
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च। पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥१२-२२९-१४॥
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च। मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥१२-२२९-१५॥
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च। धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥१२-२२९-१६॥
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च। वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥१२-२२९-१७॥
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च। प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥१२-२२९-१८॥
विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः। सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥१२-२२९-१९॥
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च। आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥१२-२२९-२०॥
धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद्। स त्यागी सत्यसङ्कल्पः स तु क्षान्तः स ईश्वरः ॥१२-२२९-२१॥
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः। शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥१२-२२९-२२॥
अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम्। जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥१२-२२९-२३॥
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम्। तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन ॥१२-२२९-२४॥
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः। चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः ॥१२-२२९-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.