12.227
व्यास उवाच॥
त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः। ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥१२-२२७-१॥
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये। सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ॥१२-२२७-२॥
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत्। असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ॥१२-२२७-३॥
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः। स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसङ्गरः ॥१२-२२७-४॥
तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः। पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च ॥१२-२२७-५॥
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्। वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ॥१२-२२७-६॥
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः। एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥१२-२२७-७॥
धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः। कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२-२२७-८॥
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च। वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् ॥१२-२२७-९॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते। ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति ॥१२-२२७-१०॥
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्। मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥१२-२२७-११॥
काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम्। महता विधिदृष्टेन बलेनाप्रतिघातिना ॥ स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥१२-२२७-१२॥
कालोदकेन महता वर्षावर्तेन सन्ततम्। मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥१२-२२७-१३॥
निमेषोन्मेषफेनेन अहोरात्रजवेन च। कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥१२-२२७-१४॥
धर्मद्वीपेन भूतानां चार्थकामरवेण च। ऋतसोपानतीरेण विहिंसातरुवाहिना ॥१२-२२७-१५॥
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च। धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥१२-२२७-१६॥
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः। प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥१२-२२७-१७॥
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः। दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥१२-२२७-१८॥
संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः। अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति ॥१२-२२७-१९॥
अप्लवो हि महादोषमुह्यमानोऽधिगच्छति। कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥१२-२२७-२०॥
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः। एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥१२-२२७-२१॥
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत्। तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा ॥१२-२२७-२२॥
संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः। प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥१२-२२७-२३॥
वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः। पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥१२-२२७-२४॥
सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत्। असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् ॥१२-२२७-२५॥
श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः। स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसङ्करः ॥१२-२२७-२६॥
क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः। धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥१२-२२७-२७॥
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्। वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ॥१२-२२७-२८॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते। ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति ॥१२-२२७-२९॥
अधर्मं धर्मकामो हि करोतीहाविचक्षणः। धर्मं चाधर्मसङ्काशं शोचन्निव करोति सः ॥१२-२२७-३०॥
धर्मं करोमीति करोत्यधर्म; मधर्मकामश्च करोति धर्मम्। उभे बालः कर्मणी न प्रजान; न्स जायते म्रियते चापि देही ॥१२-२२७-३१॥