Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.233
शुक उवाच॥
यदिदं वेदवचनं कुरु कर्म त्यजेति च। कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥१२-२३३-१॥
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे। एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः ॥१२-२३३-२॥
भीष्म उवाच॥
इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम्। कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥१२-२३३-३॥
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा। शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम् ॥१२-२३३-४॥
अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत्। तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥१२-२३३-५॥
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः। प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः ॥१२-२३३-६॥
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥१२-२३३-७॥
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः। विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः ॥१२-२३३-८॥
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः। तेन ते देहजालानि रमयन्त उपासते ॥१२-२३३-९॥
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः। न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥१२-२३३-१०॥
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ। विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥१२-२३३-११॥
यत्र गत्वा न म्रियते यत्र गत्वा न जायते। न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥१२-२३३-१२॥
यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम्। अव्याहतमनायासममृतं चावियोगि च ॥१२-२३३-१३॥
द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा। समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥१२-२३३-१४॥
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः। विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् ॥१२-२३३-१५॥
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते। नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे ॥१२-२३३-१६॥
एकादशविकारात्मा कलासम्भारसम्भृतः। मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम् ॥१२-२३३-१७॥
देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे। क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम् ॥१२-२३३-१८॥
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्। जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥१२-२३३-१९॥
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त ॥१२-२३३-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.