Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.232
व्यास उवाच॥
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः। साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥१२-२३२-१॥
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु। एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥१२-२३२-२॥
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना। आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ॥१२-२३२-३॥
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः। कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥१२-२३२-४॥
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात्। सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥१२-२३२-५॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा। चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥१२-२३२-६॥
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात्। एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥१२-२३२-७॥
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च। वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ॥१२-२३२-८॥
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः। एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥१२-२३२-९॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा। शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ॥१२-२३२-१०॥
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति। सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ॥१२-२३२-११॥
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन्। धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२-२३२-१२॥
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः। प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ॥१२-२३२-१३॥
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्। ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥१२-२३२-१४॥
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा। ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥१२-२३२-१५॥
तत एतानि संयम्य मनसि स्थापयेद्यतिः। तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत् ॥१२-२३२-१६॥
पञ्च ज्ञानेन सन्धाय मनसि स्थापयेद्यतिः। यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ॥ प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥१२-२३२-१७॥
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान्। वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ॥ सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥१२-२३२-१८॥
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः। धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥१२-२३२-१९॥
एवं परिमितं कालमाचरन्संशितव्रतः। आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥१२-२३२-२०॥
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने। अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥१२-२३२-२१॥
प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः। तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥१२-२३२-२२॥
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः। गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ॥१२-२३२-२३॥
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव। एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥१२-२३२-२४॥
येनोपायेन शक्येत संनियन्तुं चलं मनः। तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥१२-२३२-२५॥
शून्या गिरिगुहाश्चैव देवतायतनानि च। शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥१२-२३२-२६॥
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा। उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥१२-२३२-२७॥
यश्चैनमभिनन्देत यश्चैनमपवादयेत्। समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥१२-२३२-२८॥
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत्। समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥१२-२३२-२९॥
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः। षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥१२-२३२-३०॥
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः। एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥१२-२३२-३१॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी। तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥१२-२३२-३२॥
अजं पुराणमजरं सनातनं; यदिन्द्रियैरुपलभते नरोऽचलः। अणोरणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् ॥१२-२३२-३३॥
इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च। अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः ॥१२-२३२-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.