Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.234
शुक उवाच॥
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च। बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् ॥१२-२३४-१॥
भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम्। यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् ॥१२-२३४-२॥
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च। कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥१२-२३४-३॥
लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात्। कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः ॥१२-२३४-४॥
व्यास उवाच॥
यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम्। एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥१२-२३४-५॥
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः। आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि ॥१२-२३४-६॥
वने मूलफलाशी च तप्यन्सुविपुलं तपः। पुण्यायतनचारी च भूतानामविहिंसकः ॥१२-२३४-७॥
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये। काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥१२-२३४-८॥
निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे। अरण्ये विचरैकाकी येन केनचिदाशितः ॥१२-२३४-९॥
शुक उवाच॥
यदिदं वेदवचनं लोकवादे विरुध्यते। प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ॥१२-२३४-१०॥
इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे। कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥१२-२३४-११॥
भीष्म उवाच॥
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्। ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥१२-२३४-१२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥१२-२३४-१३॥
एको य आश्रमानेताननुतिष्ठेद्यथाविधि। अकामद्वेषसंयुक्तः स परत्र महीयते ॥१२-२३४-१४॥
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता। एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥१२-२३४-१५॥
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः। गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥१२-२३४-१६॥
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता। दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् ॥१२-२३४-१७॥
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि। यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥१२-२३४-१८॥
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः। किङ्करः सर्वकारी च सर्वकर्मसु कोविदः ॥१२-२३४-१९॥
शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः। चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥१२-२३४-२०॥
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्। न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥१२-२३४-२१॥
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्। दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥१२-२३४-२२॥
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति। इदं करिष्ये भगवन्निदं चापि कृतं मया ॥१२-२३४-२३॥
इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम्। कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ॥१२-२३४-२४॥
यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते। सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ॥१२-२३४-२५॥
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः। तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ॥१२-२३४-२६॥
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम्। आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा ॥१२-२३४-२७॥
वेदव्रतोपवासेन चतुर्थे चायुषो गते। गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि ॥१२-२३४-२८॥
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः। द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् ॥१२-२३४-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.