12.238
व्यास उवाच॥
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः। ते चैनं न प्रजानन्ति स तु जानाति तानपि ॥१२-२३८-१॥
तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः। सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥१२-२३८-२॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥१२-२३८-३॥
महतः परमव्यक्तमव्यक्तात्परतोऽमृतम्। अमृतान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥१२-२३८-४॥
एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥१२-२३८-५॥
अन्तरात्मनि संलीय मनःषष्ठानि मेधया। इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् ॥१२-२३८-६॥
ध्यानोपरमणं कृत्वा विद्यासम्पादितं मनः। अनीश्वरः प्रशान्तात्म ततोऽर्छत्यमृतं पदम् ॥१२-२३८-७॥
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः। आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥१२-२३८-८॥
हित्वा तु सर्वसङ्कल्पान्सत्त्वे चित्तं निवेशयेत्। सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥१२-२३८-९॥
चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥१२-२३८-१०॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्। निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥१२-२३८-११॥
एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना। सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि ॥१२-२३८-१२॥
रहस्यं सर्ववेदानामनैतिह्यमनागमम्। आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥१२-२३८-१३॥
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु। दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥१२-२३८-१४॥
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च। तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ॥ स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ॥१२-२३८-१५॥
तदिदं नाप्रशान्ताय नादान्तायातपस्विने। नावेदविदुषे वाच्यं तथा नानुगताय च ॥१२-२३८-१६॥
नासूयकायानृजवे न चानिर्दिष्टकारिणे। न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ॥१२-२३८-१७॥
श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने। इदं प्रियाय पुत्राय शिष्यायानुगताय च ॥ रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥१२-२३८-१८॥
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः। इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥१२-२३८-१९॥
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम्। यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ॥ तत्तेऽहं सम्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥१२-२३८-२०॥