Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.239
शुक उवाच॥
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे। यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम ॥१२-२३९-१॥
व्यास उवाच॥
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते। तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु ॥१२-२३९-२॥
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च। महाभूतानि भूतानां सागरस्योर्मयो यथा ॥१२-२३९-३॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः। तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥१२-२३९-४॥
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्। सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा ॥१२-२३९-५॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्। अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥१२-२३९-६॥
शुक उवाच॥
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्। इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥१२-२३९-७॥
व्यास उवाच॥
एतत्ते वर्तयिष्यामि यथावदिह दर्शनम्। शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् ॥१२-२३९-८॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम्। प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥१२-२३९-९॥
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते। रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् ॥१२-२३९-१०॥
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः। एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥१२-२३९-११॥
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते। आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥१२-२३९-१२॥
मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः। न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥१२-२३९-१३॥
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते। सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥१२-२३९-१४॥
चक्षुरालोचनायैव संशयं कुरुते मनः। बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥१२-२३९-१५॥
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः। समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् ॥१२-२३९-१६॥
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति। एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥१२-२३९-१७॥
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति। एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा ॥१२-२३९-१८॥
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि। मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥१२-२३९-१९॥
तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत्। प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् ॥१२-२३९-२०॥
यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत्। रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् ॥१२-२३९-२१॥
यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्। अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥१२-२३९-२२॥
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता। अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः ॥१२-२३९-२३॥
अभिमानो मृषावादो लोभो मोहस्तथाक्षमा। लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥१२-२३९-२४॥
तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता। कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥१२-२३९-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.