12.246
व्यास उवाच॥
हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः। क्रोधमानमहास्कन्धो विवित्सापरिमोचनः ॥१२-२४६-१॥
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्। सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् ॥१२-२४६-२॥
संमोहचिन्ताविटपः शोकशाखो भयङ्करः। मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः ॥१२-२४६-३॥
उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः। आयासैः संयतः पाशैः फलानि परिवेष्टयन् ॥१२-२४६-४॥
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति। गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः ॥१२-२४६-५॥
संरोहत्यकृतप्रज्ञः सन्तापेन हि पादपम्। स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम् ॥१२-२४६-६॥
तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात्। त्यागाप्रमादाकृतिना साम्येन परमासिना ॥१२-२४६-७॥
एवं यो वेद कामस्य केवलं परिकर्षणम्। वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते ॥१२-२४६-८॥
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते। तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥१२-२४६-९॥
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः। तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा ॥१२-२४६-१०॥
यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः। अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ॥१२-२४६-११॥
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते। पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः ॥१२-२४६-१२॥
यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति। यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥१२-२४६-१३॥
पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम्। तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते ॥१२-२४६-१४॥
तन्मनः कुरुते सख्यं रजसा सह सङ्गतम्। तं चादाय जनं पौरं रजसे सम्प्रयच्छति ॥१२-२४६-१५॥