Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.247
भीष्म उवाच॥
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय। द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ ॥१२-२४७-१॥
दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे। ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ॥१२-२४७-२॥
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता। गन्धो गुरुत्वं शक्तिश्च सङ्घातः स्थापना धृतिः ॥१२-२४७-३॥
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता। जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा ॥१२-२४७-४॥
अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम्। शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता ॥१२-२४७-५॥
वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता। बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः ॥१२-२४७-६॥
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च। अनाश्रयमनालम्बमव्यक्तमविकारिता ॥१२-२४७-७॥
अप्रतीघातता चैव भूतत्वं विकृतानि च। गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः ॥१२-२४७-८॥
चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा। सदसच्चाशुता चैव मनसो नव वै गुणाः ॥१२-२४७-९॥
इष्टानिष्टविकल्पश्च व्यवसायः समाधिता। संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः ॥१२-२४७-१०॥
युधिष्ठिर उवाच॥
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः। एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ॥१२-२४७-११॥
भीष्म उवाच॥
आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः। भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति ॥१२-२४७-१२॥
तत्पुत्र चिन्ताकलितं यदुक्त; मनागतं वै तव सम्प्रतीह। भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तबुद्धिः ॥१२-२४७-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.