12.245
व्यास उवाच॥
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्। कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ॥१२-२४५-१॥
यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः। देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि ॥१२-२४५-२॥
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते। सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति ॥१२-२४५-३॥
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः। स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥१२-२४५-४॥
स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम्। प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः ॥१२-२४५-५॥
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि। वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् ॥१२-२४५-६॥
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः। सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ॥१२-२४५-७॥
मनोबुद्धिपराभूतः स्वदेहपरदेहवित्। स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ॥१२-२४५-८॥
तत्रापि लभते दुःखं तत्रापि लभते सुखम्। क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति ॥१२-२४५-९॥
प्रीणितश्चापि भवति महतोऽर्थानवाप्य च। करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ॥१२-२४५-१०॥
तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम्। तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ॥१२-२४५-११॥
शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः। अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि ॥१२-२४५-१२॥
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु। समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् ॥१२-२४५-१३॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति ॥१२-२४५-१४॥