Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.245
Library: Vyasa continues: those whose minds are fixed on the śāstra perceive, by actions as stated in the śāstra, the subtle being—the embodied one—who is indeed completely released from the body.
व्यास उवाच॥
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्। कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ॥१२-२४५-१॥
यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः। देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि ॥१२-२४५-२॥
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते। सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति ॥१२-२४५-३॥
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः। स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥१२-२४५-४॥
स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम्। प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः ॥१२-२४५-५॥
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि। वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् ॥१२-२४५-६॥
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः। सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ॥१२-२४५-७॥
मनोबुद्धिपराभूतः स्वदेहपरदेहवित्। स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ॥१२-२४५-८॥
तत्रापि लभते दुःखं तत्रापि लभते सुखम्। क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति ॥१२-२४५-९॥
प्रीणितश्चापि भवति महतोऽर्थानवाप्य च। करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ॥१२-२४५-१०॥
तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम्। तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ॥१२-२४५-११॥
शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः। अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि ॥१२-२४५-१२॥
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु। समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् ॥१२-२४५-१३॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति ॥१२-२४५-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.