12.251
युधिष्ठिर उवाच॥
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः। कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥१२-२५१-१॥
धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत्। उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह ॥१२-२५१-२॥
भीष्म उवाच॥
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्। चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥१२-२५१-३॥
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे। लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ॥ उभयत्र सुखोदर्क इह चैव परत्र च ॥१२-२५१-४॥
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति। न च पापकृतः पापान्मुच्यन्ते केचिदापदि ॥१२-२५१-५॥
अपापवादी भवति यदा भवति धर्मवित्। धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ॥१२-२५१-६॥
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः। रमते निर्हरन्स्तेनः परवित्तमराजके ॥१२-२५१-७॥
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति। तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥१२-२५१-८॥
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः। न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति ॥१२-२५१-९॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्। सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥१२-२५१-१०॥
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक्। अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ॥ ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ॥१२-२५१-११॥
न हर्तव्यं परधनमिति धर्मः सनातनः। मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम् ॥ यदा नियतिदौर्बल्यमथैषामेव रोचते ॥१२-२५१-१२॥
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा। तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन ॥१२-२५१-१३॥
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः। न किञ्चित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥१२-२५१-१४॥
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्। बहुधाचरितं पापमन्यत्रैवानुपश्यति ॥१२-२५१-१५॥
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा। न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति ॥१२-२५१-१६॥
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः। तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम् ॥१२-२५१-१७॥
यदा नियतिकार्पण्यमथैषामेव रोचते। न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ॥१२-२५१-१८॥
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः। न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥१२-२५१-१९॥
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति। यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ॥१२-२५१-२०॥
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्। यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥१२-२५१-२१॥
अतिरिक्तैः संविभजेद्भोगैरन्यानकिञ्चनान्। एतस्मात्कारणाद्धात्रा कुसीदं सम्प्रवर्तितम् ॥१२-२५१-२२॥
यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत्। अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ॥१२-२५१-२३॥
सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः। पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥१२-२५१-२४॥
लोकसङ्ग्रहसंयुक्तं विधात्रा विहितं पुरा। सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥१२-२५१-२५॥
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम। तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन ॥१२-२५१-२६॥