Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.250
नारद उवाच॥
विनीय दुःखमबला सा त्वतीवायतेक्षणा। उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥१२-२५०-१॥
त्वया सृष्टा कथं नारी मादृशी वदतां वर। रौद्रकर्माभिजायेत सर्वप्राणिभयङ्करी ॥१२-२५०-२॥
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे। त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ॥१२-२५०-३॥
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः। प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥१२-२५०-४॥
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि। अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥१२-२५०-५॥
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः। तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥१२-२५०-६॥
यमस्य भवने देव यात्यन्ते पापकर्मिणः। प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ॥१२-२५०-७॥
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह। इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥१२-२५०-८॥
पितामह उवाच॥
मृत्यो सङ्कल्पिता मे त्वं प्रजासंहारहेतुना। गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ॥१२-२५०-९॥
एतदेवमवश्यं हि भविता नैतदन्यथा। क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥१२-२५०-१०॥
नारद उवाच॥
एवमुक्ता महाबाहो मृत्युः परपुरञ्जय। न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥१२-२५०-११॥
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी। तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ॥१२-२५०-१२॥
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान्। स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥१२-२५०-१३॥
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते। सा कन्यापजगामास्य समीपादिति नः श्रुतम् ॥१२-२५०-१४॥
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा। त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ॥१२-२५०-१५॥
सा तत्र परमं देवी तपोऽचरत दुश्चरम्। समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ॥१२-२५०-१६॥
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्। पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥१२-२५०-१७॥
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा। तथैवैकपदे तात पुनरन्यानि सप्त सा ॥१२-२५०-१८॥
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद। भूयः पद्मायुतं तात मृगैः सह चचार सा ॥१२-२५०-१९॥
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम्। अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥१२-२५०-२०॥
ततो जगाम सा कन्या कौशिकीं भरतर्षभ। तत्र वायुजलाहारा चचार नियमं पुनः ॥१२-२५०-२१॥
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्। तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥१२-२५०-२२॥
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे। तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ॥ तस्थौ पितामहं चैव तोषयामास यत्नतः ॥१२-२५०-२३॥
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः। किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥१२-२५०-२४॥
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्। न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ॥१२-२५०-२५॥
तामधर्मभयत्रस्तां पुनरेव च याचतीम्। तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥१२-२५०-२६॥
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे। मया ह्युक्तं मृषा भद्रे भविता नेह किञ्चन ॥१२-२५०-२७॥
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते। अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥१२-२५०-२८॥
इममन्यं च ते कामं ददामि मनसेप्सितम्। न त्वा दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः ॥१२-२५०-२९॥
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि। स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥१२-२५०-३०॥
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह। पुनरेव महात्मानं नेति देवेशमव्ययम् ॥१२-२५०-३१॥
तामब्रवीत्तदा देवो मृत्यो संहर मानवान्। अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥१२-२५०-३२॥
यानश्रुबिन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात्। ते व्याधयो मानवान्घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥१२-२५०-३३॥
सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजयेथाः। एवं धर्मस्त्वामुपैष्यत्यमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥१२-२५०-३४॥
एवं धर्मं पालयिष्यस्यथोक्तं; न चात्मानं मज्जयिष्यस्यधर्मे। तस्मात्कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून् ॥१२-२५०-३५॥
सा वै तदा मृत्युसञ्ज्ञापदेशा; च्छापाद्भीता बाढमित्यब्रवीत्तम्। अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥१२-२५०-३६॥
मृत्योर्ये ते व्याधयश्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम्। सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥१२-२५०-३७॥
सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव। एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह ॥१२-२५०-३८॥
वायुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः। नानावृत्तिर्देहिनां देहभेदे; तस्माद्वायुर्देवदेवो विशिष्टः ॥१२-२५०-३९॥
सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टाः; सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः। तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥१२-२५०-४०॥
एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत्। तस्याश्चैव व्याधयस्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् ॥१२-२५०-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.