Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.254
भीष्म उवाच॥
इत्युक्तः स तदा तेन तुलाधारेण धीमता। प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः ॥१२-२५४-१॥
विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज। वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥१२-२५४-२॥
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम्। एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥१२-२५४-३॥
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना। उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ॥ जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप ॥१२-२५४-४॥
वेदाहं जाजले धर्मं सरहस्यं सनातनम्। सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥१२-२५४-५॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥१२-२५४-६॥
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्। अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥१२-२५४-७॥
रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून्। क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥१२-२५४-८॥
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः। कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥१२-२५४-९॥
नाहं परेषां कर्माणि प्रशंसामि शपामि वा। आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम् ॥१२-२५४-१०॥
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये। समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् ॥१२-२५४-११॥
इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः। तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥१२-२५४-१२॥
इति मां त्वं विजानीहि सर्वलोकस्य जाजले। समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥१२-२५४-१३॥
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा। देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥१२-२५४-१४॥
यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति। तथार्थकामभोगेषु ममापि विगता स्पृहा ॥१२-२५४-१५॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः ॥१२-२५४-१६॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१२-२५४-१७॥
न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन। योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥१२-२५४-१८॥
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव। वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् ॥१२-२५४-१९॥
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्। अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् ॥१२-२५४-२०॥
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः। तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते ॥१२-२५४-२१॥
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्। एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥१२-२५४-२२॥
नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया। यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित् ॥१२-२५४-२३॥
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः। तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया ॥ एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ॥१२-२५४-२४॥
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन। अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥१२-२५४-२५॥
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव। क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥१२-२५४-२६॥
सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा। ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ॥ कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥१२-२५४-२७॥
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा। प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥१२-२५४-२८॥
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्। स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ॥ न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन ॥१२-२५४-२९॥
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन। सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने ॥१२-२५४-३०॥
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव। न स धर्ममवाप्नोति इह लोके परत्र च ॥१२-२५४-३१॥
सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः। देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥१२-२५४-३२॥
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्। ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले ॥१२-२५४-३३॥
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः। व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥१२-२५४-३४॥
अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले। भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥१२-२५४-३५॥
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः। उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥१२-२५४-३६॥
ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान्। वहन्ति महतो भारान्बध्नन्ति दमयन्ति च ॥१२-२५४-३७॥
हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे। मानुषा मानुषानेव दासभोगेन बुञ्जते ॥१२-२५४-३८॥
वधबन्धविरोधेन कारयन्ति दिवानिशम्। आत्मना चापि जानासि यद्दुःखं वधताडने ॥१२-२५४-३९॥
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्। आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ॥१२-२५४-४०॥
तानि जीवानि विक्रीय का मृतेषु विचारणा। का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा ॥१२-२५४-४१॥
अदंशमशके देशे सुखं संवर्धितान्पशून्। तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ॥ बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् ॥१२-२५४-४२॥
वाहसम्पीडिता धुर्याः सीदन्त्यविधिनापरे। न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा ॥१२-२५४-४३॥
कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा। भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ तथैवानडुहो युक्तान्समवेक्षस्व जाजले ॥१२-२५४-४४॥
अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति। महच्चकाराकुशलं पृषध्रो गालभन्निव ॥१२-२५४-४५॥
ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन्। गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् ॥ अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् ॥१२-२५४-४६॥
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्। ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले ॥ भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः ॥१२-२५४-४७॥
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः। ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् ॥१२-२५४-४८॥
ईदृशानशिवान्घोरानाचारानिह जाजले। केवलाचरितत्वात्तु निपुणान्नावबुध्यसे ॥१२-२५४-४९॥
कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत्। यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ॥१२-२५४-५०॥
समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये। एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥१२-२५४-५१॥
उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते। सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः ॥१२-२५४-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.