Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.253
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥१२-२५३-१॥
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः। सागरोद्देशमागम्य तपस्तेपे महातपाः ॥१२-२५३-२॥
नियतो नियताहारश्चीराजिनजटाधरः। मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥१२-२५३-३॥
स कदाचिन्महातेजा जलवासो महीपते। चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥१२-२५३-४॥
स चिन्तयामास मुनिर्जलमध्ये कदाचन। विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥१२-२५३-५॥
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे। अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥१२-२५३-६॥
स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः। अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि ॥१२-२५३-७॥
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः। सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥१२-२५३-८॥
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः। पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥१२-२५३-९॥
इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात्। अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम ॥१२-२५३-१०॥
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा। वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः ॥१२-२५३-११॥
युधिष्ठिर उवाच॥
किं कृतं सुकृतं कर्म तात जाजलिना पुरा। येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि ॥१२-२५३-१२॥
भीष्म उवाच॥
अतीव तपसा युक्तो घोरेण स बभूव ह। नद्युपस्पर्शनरतः सायं प्रातर्महातपाः ॥१२-२५३-१३॥
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः। वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया ॥१२-२५३-१४॥
सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत। वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः ॥१२-२५३-१५॥
वतातपसहो ग्रीष्मे न च धर्ममविन्दत। दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥१२-२५३-१६॥
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः। अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः ॥१२-२५३-१७॥
अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो। अरण्यगमनान्नित्यं मलिनो मलसंयुताः ॥१२-२५३-१८॥
स कदाचिन्निराहारो वायुभक्षो महातपाः। तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥१२-२५३-१९॥
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत। कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥१२-२५३-२०॥
स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती। कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः ॥१२-२५३-२१॥
यदा स न चलत्येव स्थाणुभूतो महातपाः। ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा ॥१२-२५३-२२॥
अतीतास्वथ वर्षासु शरत्काल उपस्थिते। प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥१२-२५३-२३॥
तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ। तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥१२-२५३-२४॥
बुद्ध्वा च स महातेजा न चचालैव जाजलिः। धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् ॥१२-२५३-२५॥
अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि। आश्वासितौ वै वसतः सम्प्रहृष्टौ तदा विभो ॥१२-२५३-२६॥
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः। व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥१२-२५३-२७॥
स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः। तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥१२-२५३-२८॥
ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः। बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् ॥१२-२५३-२९॥
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः। बभूव परमप्रीतस्तदा मतिमतां वरः ॥१२-२५३-३०॥
तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम्। शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥१२-२५३-३१॥
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान्। सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥१२-२५३-३२॥
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम्। त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः ॥१२-२५३-३३॥
अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप। उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥१२-२५३-३४॥
कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः। षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥१२-२५३-३५॥
क्रमेण च पुनः सर्वे दिवसानि बहून्यपि। नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा ॥१२-२५३-३६॥
कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः। नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥१२-२५३-३७॥
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः। सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥१२-२५३-३८॥
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः। सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाभवन् ॥१२-२५३-३९॥
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्। उदयन्तमथादित्यमभ्यगच्छन्महातपाः ॥१२-२५३-४०॥
सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः। आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै ॥१२-२५३-४१॥
अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः। धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥१२-२५३-४२॥
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः। सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥१२-२५३-४३॥
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया। पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः ॥१२-२५३-४४॥
कालेन महतागच्छत्स तु वाराणसीं पुरीम्। विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥१२-२५३-४५॥
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः। समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥१२-२५३-४६॥
तुलाधार उवाच॥
आयानेवासि विदितो मम ब्रह्मन्न संशयः। ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥१२-२५३-४७॥
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्। न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन ॥१२-२५३-४८॥
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः। क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया ॥१२-२५३-४९॥
जातपक्षा यदा ते च गताश्चारीमितस्ततः। मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ॥ खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥१२-२५३-५०॥
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह। करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥१२-२५३-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.