Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.260
युधिष्ठिर उवाच॥
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः। यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥१२-२६०-१॥
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः। अदूरसम्प्रस्थितयोः किं स्विच्छ्रेयः पितामह ॥१२-२६०-२॥
भीष्म उवाच॥
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ। उभौ महाफलौ तात सद्भिराचरितावुभौ ॥१२-२६०-३॥
अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः। शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् ॥१२-२६०-४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥१२-२६०-५॥
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्। नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥१२-२६०-६॥
तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः। ज्ञानवान्नियताहारो ददर्श कपिलस्तदा ॥१२-२६०-७॥
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्। स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् ॥१२-२६०-८॥
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्। हंहो वेदा यदि मता धर्माः केनापरे मताः ॥१२-२६०-९॥
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः। सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥१२-२६०-१०॥
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः। का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ॥१२-२६०-११॥
कपिल उवाच॥
नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित्। पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥१२-२६०-१२॥
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति। गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥१२-२६०-१३॥
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः। तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् ॥१२-२६०-१४॥
एवं विदित्वा सर्वार्थानारभेदिति वैदिकम्। नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥१२-२६०-१५॥
अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः। एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥१२-२६०-१६॥
यद्यत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम्। ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥१२-२६०-१७॥
स्यूमरश्मिरुवाच॥
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः। फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥१२-२६०-१८॥
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये। ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः ॥१२-२६०-१९॥
तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते। पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥१२-२६०-२०॥
एतानि सह यज्ञेन प्रजापतिरकल्पयत्। तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ॥१२-२६०-२१॥
ते स्मान्योन्यञ्चराः सर्वे प्राणिनः सप्त सप्त च। यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम् ॥१२-२६०-२२॥
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा। को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥१२-२६०-२३॥
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह। स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् ॥१२-२६०-२४॥
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि। हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥१२-२६०-२५॥
ऋचो यजूंषि सामानि यजमानश्च षोडशः। अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ॥ अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ॥१२-२६०-२६॥
आज्येन पयसा दध्ना शकृतामिक्षया त्वचा। वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् ॥ एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ॥१२-२६०-२७॥
यज्ञं वहन्ति सम्भूय सहर्त्विग्भिः सदक्षिणैः। संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥१२-२६०-२८॥
यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः। एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः ॥१२-२६०-२९॥
न हिनस्ति ह्यारभते नाभिद्रुह्यति किञ्चन। यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया ॥१२-२६०-३०॥
यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः। विधिना विधियुक्तानि तारयन्ति परस्परम् ॥१२-२६०-३१॥
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः। तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥१२-२६०-३२॥
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च। अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा ॥१२-२६०-३३॥
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट्। यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥१२-२६०-३४॥
न तस्य त्रिषु लोकेषु परलोकभयं विदुः। इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥१२-२६०-३५॥
ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः। यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः ॥१२-२६०-३६॥
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज। यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः ॥१२-२६०-३७॥
तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन्। यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ॥१२-२६०-३८॥
नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः। वेदवादविदश्चैव प्रमाणमुभयं तदा ॥१२-२६०-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.