Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.261
कपिल उवाच॥
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः। नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥१२-२६१-१॥
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः। विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥१२-२६१-२॥
अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः। ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥१२-२६१-३॥
विशोका नष्टरजसस्तेषां लोकाः सनातनाः। तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥१२-२६१-४॥
स्यूमरश्मिरुवाच॥
यद्येषा परमा निष्ठा यद्येषा परमा गतिः। गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥१२-२६१-५॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ॥१२-२६१-६॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः। गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेजते ॥१२-२६१-७॥
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने। प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते ॥१२-२६१-८॥
यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज। ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ॥ कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ॥१२-२६१-९॥
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः। निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ॥ श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ॥१२-२६१-१०॥
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा। ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥१२-२६१-११॥
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु। अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ॥१२-२६१-१२॥
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम्। दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ॥१२-२६१-१३॥
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः। मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥१२-२६१-१४॥
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्। ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥१२-२६१-१५॥
श्रिया विहीनैरलसैः पण्डितैरपलापितम्। वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥१२-२६१-१६॥
न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः। ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; सन्तर्पितस्तर्पयते च कामैः ॥१२-२६१-१७॥
न वेदानां परिभवान्न शाठ्येन न मायया। महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ॥१२-२६१-१८॥
कपिल उवाच॥
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम्। चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥१२-२६१-१९॥
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः। ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥१२-२६१-२०॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः। देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥१२-२६१-२१॥
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा। बाहुभ्यां वाच उदरादुपस्था; त्तेषां द्वारं द्वारपालो बुभूषेत् ॥१२-२६१-२२॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत्। क्रुद्धो न चैव प्रहरेत धीमां; स्तथास्य तत्पाणिपादं सुगुप्तम् ॥१२-२६१-२३॥
नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात्। सत्यव्रतो मितभाषोऽप्रमत्त; स्तथास्य वाग्द्वारमथो सुगुप्तम् ॥१२-२६१-२४॥
नानाशनः स्यान्न महाशनः स्या; दलोलुपः साधुभिरागतः स्यात्। यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः ॥१२-२६१-२५॥
न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत। भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत ॥१२-२६१-२६॥
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः। उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ॥१२-२६१-२७॥
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत। किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥१२-२६१-२८॥
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्। बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥१२-२६१-२९॥
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः। परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥१२-२६१-३०॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या। गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥१२-२६१-३१॥
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः। सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥१२-२६१-३२॥
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम्। अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ॥१२-२६१-३३॥
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च। विगुणानि च पश्यन्ति तथानैकान्तिकानि च ॥१२-२६१-३४॥
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः। अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥१२-२६१-३५॥
स्यूमरश्मिरुवाच॥
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा। तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥१२-२६१-३६॥
कपिल उवाच॥
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः। प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥१२-२६१-३७॥
स्यूमरश्मिरुवाच॥
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः। श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ॥ इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ॥१२-२६१-३८॥
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः। किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ॥ अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ॥१२-२६१-३९॥
आगमो वेदवादस्तु तर्कशास्त्राणि चागमः। यथागममुपासीत आगमस्तत्र सिध्यति ॥ सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥१२-२६१-४०॥
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना। ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ॥ एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥१२-२६१-४१॥
नैव त्यागी न सन्तुष्टो नाशोको न निरामयः। न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥१२-२६१-४२॥
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्। इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥१२-२६१-४३॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु। एकमालम्बमानानां निर्णये किं निरामयम् ॥१२-२६१-४४॥
कपिल उवाच॥
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु। यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥१२-२६१-४५॥
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते। ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥१२-२६१-४६॥
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः। ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥१२-२६१-४७॥
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः। कामद्वेषाभिभूतत्वादहङ्कारवशं गताः ॥१२-२६१-४८॥
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः। ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ॥१२-२६१-४९॥
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते। तेषां तमःशरीराणां तम एव परायणम् ॥१२-२६१-५०॥
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः। तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ॥ नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः ॥१२-२६१-५१॥
एतद्बुद्ध्यानुपश्यन्तः सन्त्यजेयुः शुभाशुभम्। परां गतिमभीप्सन्तो यतयः संयमे रताः ॥१२-२६१-५२॥
स्यूमरश्मिरुवाच॥
सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम्। न ह्यविज्ञाय शात्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥१२-२६१-५३॥
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः। यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥१२-२६१-५४॥
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः। यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥१२-२६१-५५॥
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः। शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ॥ अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥१२-२६१-५६॥
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः। पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् ॥ वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ॥१२-२६१-५७॥
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्। दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम् ॥१२-२६१-५८॥
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित्। धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥१२-२६१-५९॥
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया। एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥१२-२६१-६०॥
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः। यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥१२-२६१-६१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.