Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.264
युधिष्ठिर उवाच॥
बहूनां यज्ञतपसामेकार्थानां पितामह। धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥१२-२६४-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्। उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह ॥१२-२६४-२॥
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः। उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे ॥१२-२६४-३॥
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला। तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥१२-२६४-४॥
उपगम्य वने पृथ्वीं सर्वभूतविहिंसया। अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परन्तप ॥१२-२६४-५॥
तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी। यज्ञपत्नीत्वमानीता सत्येनानुविधीयते ॥ सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी ॥१२-२६४-६॥
मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम्। अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः ॥१२-२६४-७॥
शुक्रस्य पुनराजातिरपध्यानादधर्मवित्। तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ॥ वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम् ॥१२-२६४-८॥
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः। मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥१२-२६४-९॥
ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत्। निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥१२-२६४-१०॥
एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्। किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ॥१२-२६४-११॥
सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः। सत्येन सम्परिष्वज्य संदिष्टो गम्यतामिति ॥१२-२६४-१२॥
ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत। साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् ॥१२-२६४-१३॥
पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा। विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ॥१२-२६४-१४॥
ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा। मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ॥१२-२६४-१५॥
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने। तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः ॥१२-२६४-१६॥
तस्य तेन तु भावेन मृगहिंसात्मनस्तदा। तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥१२-२६४-१७॥
ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम्। समाधानं च भार्याया लेभे स तपसा परम् ॥१२-२६४-१८॥
अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता। सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् ॥१२-२६४-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.