12.265
युधिष्ठिर उवाच॥
कथं भवति पापात्मा कथं धर्मं करोति वा। केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥१२-२६५-१॥
भीष्म उवाच॥
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि। शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥१२-२६५-२॥
विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते। प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ ॥१२-२६५-३॥
ततस्तदर्थं यतते कर्म चारभते पुनः। इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥१२-२६५-४॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥१२-२६५-५॥
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च। न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥१२-२६५-६॥
व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते। व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन ॥१२-२६५-७॥
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति। सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ॥१२-२६५-८॥
उत्तरं न्यायसम्बद्धं ब्रवीति विधियोजितम्। अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥१२-२६५-९॥
पापं चिन्तयते चैव प्रब्रवीति करोति च। तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥१२-२६५-१०॥
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः। स नेह सुखमाप्नोति कुत एव परत्र वै ॥१२-२६५-११॥
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु। यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥१२-२६५-१२॥
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति। कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते ॥१२-२६५-१३॥
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते। प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति ॥१२-२६५-१४॥
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः। तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥१२-२६५-१५॥
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्। स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ॥१२-२६५-१६॥
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत। प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ॥१२-२६५-१७॥
स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर। अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥१२-२६५-१८॥
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति। विरज्यते तदा कामान्न च धर्मं विमुञ्चति ॥१२-२६५-१९॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्। ततो मोक्षाय यतते नानुपायादुपायतः ॥१२-२६५-२०॥
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च। धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥१२-२६५-२१॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि। पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत ॥१२-२६५-२२॥
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर। धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥१२-२६५-२३॥