12.263
युधिष्ठिर उवाच॥
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत। कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥१२-२६३-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥१२-२६३-२॥
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत। यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥१२-२६३-३॥
स निश्चयमथो कृत्वा पूजयामास देवताः। भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः ॥१२-२६३-४॥
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत्। यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥१२-२६३-५॥
अथ सौम्येन वपुषा देवानुचरमन्तिके। प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥१२-२६३-६॥
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत। अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥१२-२६३-७॥
सन्निकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः। एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥१२-२६३-८॥
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि। बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥१२-२६३-९॥
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा। तस्योपकारे नियतामिमां वाचमुवाच ह ॥१२-२६३-१०॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥१२-२६३-११॥
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः। पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥१२-२६३-१२॥
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा। अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥१२-२६३-१३॥
शमेन तपसा चैव भक्त्या च निरुपस्कृतः। शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥१२-२६३-१४॥
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्। अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥१२-२६३-१५॥
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च। शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥१२-२६३-१६॥
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः। निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥१२-२६३-१७॥
ततस्तु देववचनान्मणिभद्रो महायशाः। उवाच पतितं भूमौ कुण्डधार किमिष्यते ॥१२-२६३-१८॥
कुण्डधार उवाच॥
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम। अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम् ॥१२-२६३-१९॥
भीष्म उवाच॥
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत्। देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥१२-२६३-२०॥
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव। यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ॥ देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ॥१२-२६३-२१॥
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम्। तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥१२-२६३-२२॥
कुण्डधार उवाच॥
नाहं धनानि याचामि ब्राह्मणाय धनप्रद। अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥१२-२६३-२३॥
पृथिवीं रत्नपूर्णां वा महद्वा धनसञ्चयम्। भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥१२-२६३-२४॥
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु। धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥१२-२६३-२५॥
मणिभद्र उवाच॥
यदा धर्मफलं राज्यं सुखानि विविधानि च। फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥१२-२६३-२६॥
भीष्म उवाच॥
ततस्तदेव बहुशः कुण्डधारो महायशाः। अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ॥१२-२६३-२७॥
मणिभद्र उवाच॥
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च। भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥१२-२६३-२८॥
भीष्म उवाच॥
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर। ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥१२-२६३-२९॥
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः। पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥१२-२६३-३०॥
ब्राह्मण उवाच॥
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम्। गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ॥१२-२६३-३१॥
भीष्म उवाच॥
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः। वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥१२-२६३-३२॥
देवतातिथिशेषेण फलमूलाशनो द्विजः। धर्मे चापि महाराज रतिरस्याभ्यजायत ॥१२-२६३-३३॥
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः। पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥१२-२६३-३४॥
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत्। न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥१२-२६३-३५॥
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः। कालेन महता तस्य दिव्या दृष्टिरजायत ॥१२-२६३-३६॥
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम्। तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥१२-२६३-३७॥
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः। भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥१२-२६३-३८॥
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित्। स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥१२-२६३-३९॥
तस्य साक्षात्कुण्डधारो दर्शयामास भारत। ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥१२-२६३-४०॥
समागम्य स तेनाथ पूजां चक्रे यथाविधि। ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥१२-२६३-४१॥
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम्। पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ॥१२-२६३-४२॥
ततो राज्ञां सहस्राणि मग्नानि निरये तदा। दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥१२-२६३-४३॥
कुण्डधार उवाच॥
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः। कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥१२-२६३-४४॥
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः। स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥१२-२६३-४५॥
भीष्म उवाच॥
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम्। निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥१२-२६३-४६॥
कुण्डधार उवाच॥
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम्। तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥१२-२६३-४७॥
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः। एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥१२-२६३-४८॥
भीष्म उवाच॥
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे। उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥१२-२६३-४९॥
कामलोभानुबन्धेन पुरा ते यदसूयितम्। मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥१२-२६३-५०॥
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्। सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥१२-२६३-५१॥
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह। कुण्डधारप्रसादेन तपसा योजितः पुरा ॥१२-२६३-५२॥
विहायसा च गमनं तथा सङ्कल्पितार्थता। धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥१२-२६३-५३॥
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः। धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥१२-२६३-५४॥
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः। धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥१२-२६३-५५॥