Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.266
युधिष्ठिर उवाच॥
मोक्षः पितामहेनोक्त उपायान्नानुपायतः। तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥१२-२६६-१॥
भीष्म उवाच॥
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्। यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ ॥१२-२६६-२॥
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ। एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् ॥१२-२६६-३॥
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम्। एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥१२-२६६-४॥
क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात्। सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति ॥१२-२६६-५॥
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्। इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥१२-२६६-६॥
भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत्। निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥१२-२६६-७॥
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात्। लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् ॥१२-२६६-८॥
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया। आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥१२-२६६-९॥
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः। कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥१२-२६६-१०॥
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्। मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् ॥१२-२६६-११॥
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा। ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ॥१२-२६६-१२॥
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा। योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥१२-२६६-१३॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्। परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥१२-२६६-१४॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा। शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥१२-२६६-१५॥
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च। सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते ॥१२-२६६-१६॥
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः। कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२-२६६-१७॥
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्। अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥१२-२६६-१८॥
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः। तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥१२-२६६-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.