Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.267
भीष्म उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं देवलस्यासितस्य च ॥१२-२६७-१॥
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः। नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥१२-२६७-२॥
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम्। प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥१२-२६७-३॥
असित उवाच॥
येभ्यः सृजति भूतानि कालो भावप्रचोदितः। महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥१२-२६७-४॥
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः। एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥१२-२६७-५॥
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान्। महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥१२-२६७-६॥
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ। असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥१२-२६७-७॥
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम्। वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः ॥१२-२६७-८॥
पञ्चैव तानि कालश्च भावाभावौ च केवलौ। अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ॥१२-२६७-९॥
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि। विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ॥१२-२६७-१०॥
तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम्। सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् ॥१२-२६७-११॥
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी। इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥१२-२६७-१२॥
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा। उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ॥१२-२६७-१३॥
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः। इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥१२-२६७-१४॥
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान्। इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥१२-२६७-१५॥
चित्तमिन्द्रियसङ्घातात्परं तस्मात्परं मनः। मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥१२-२६७-१६॥
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्। विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ॥ इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति ॥१२-२६७-१७॥
चित्तमिन्द्रियसङ्घातं मनो बुद्धिं तथाष्टमीम्। अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥१२-२६७-१८॥
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम्। इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥१२-२६७-१९॥
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते। गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥१२-२६७-२०॥
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी। विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ॥१२-२६७-२१॥
बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम्। ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया ॥१२-२६७-२२॥
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा। भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥१२-२६७-२३॥
इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि। सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ॥१२-२६७-२४॥
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः। कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ॥१२-२६७-२५॥
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः। सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ॥१२-२६७-२६॥
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः। भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः ॥१२-२६७-२७॥
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः। तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥१२-२६७-२८॥
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम्। संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥१२-२६७-२९॥
अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम्। एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ॥ ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः ॥१२-२६७-३०॥
महान्सन्धारयत्येतच्छरीरं वायुना सह। तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ॥१२-२६७-३१॥
यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा। पुण्यपापविनाशान्ते पुण्यपापसमीरितम् ॥ देहं विशति कालेन ततोऽयं कर्मसम्भवम् ॥१२-२६७-३२॥
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः। कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥१२-२६७-३३॥
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः। कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः ॥१२-२६७-३४॥
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते। भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ॥१२-२६७-३५॥
नैव सञ्जायते जन्तुर्न च जातु विपद्यते। याति देहमयं भुक्त्वा कदाचित्परमां गतिम् ॥१२-२६७-३६॥
पुण्यपापमयं देहं क्षपयन्कर्मसञ्चयात्। क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥१२-२६७-३७॥
पुण्यपापक्षयार्थं च साङ्ख्यं ज्ञानं विधीयते। तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् ॥१२-२६७-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.