12.268
युधिष्ठिर उवाच॥
भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा। अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ॥१२-२६८-१॥
येयमर्थोद्भवा तृष्णा कथमेतां पितामह। निवर्तयेम पापं हि तृष्णया कारिता वयम् ॥१२-२६८-२॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं विदेहराजेन माण्डव्यायानुपृच्छते ॥१२-२६८-३॥
सुसुखं बत जीवामि यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥१२-२६८-४॥
अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम्। असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥१२-२६८-५॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥१२-२६८-६॥
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते। तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥१२-२६८-७॥
किञ्चिदेव ममत्वेन यदा भवति कल्पितम्। तदेव परितापाय नाशे सम्पद्यते पुनः ॥१२-२६८-८॥
न कामाननुरुध्येत दुःखं कामेषु वै रतिः। प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् ॥१२-२६८-९॥
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत्। कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह ॥१२-२६८-१०॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये। भयाभये च सन्त्यज्य सम्प्रशान्तो निरामयः ॥१२-२६८-११॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥१२-२६८-१२॥
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम्। धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ॥१२-२६८-१३॥
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः। पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ॥१२-२६८-१४॥