Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.270
युधिष्ठिर उवाच॥
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत। न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥१२-२७०-१॥
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम। प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥१२-२७०-२॥
कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम्। दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥१२-२७०-३॥
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः। इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह ॥१२-२७०-४॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः। कदा वयं भविष्यामो राज्यं हित्वा परन्तप ॥१२-२७०-५॥
भीष्म उवाच॥
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम्। पुनर्भावोऽपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम् ॥१२-२७०-६॥
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः। उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥१२-२७०-७॥
ईशोऽयं सततं देही नृपते पुण्यपापयोः। तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥१२-२७०-८॥
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः। अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥१२-२७०-९॥
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः। विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥१२-२७०-१०॥
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः। व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥१२-२७०-११॥
अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः। त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥१२-२७०-१२॥
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप। यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥१२-२७०-१३॥
निर्जितेनासहायेन हृतराज्येन भारत। अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥१२-२७०-१४॥
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्। कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥१२-२७०-१५॥
वृत्र उवाच॥
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम्। न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥१२-२७०-१६॥
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः। परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥१२-२७०-१७॥
क्षपयित्वा तु तं कालं गणितं कालचोदिताः। सावशेषेण कालेन सम्भवन्ति पुनः पुनः ॥१२-२७०-१८॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥१२-२७०-१९॥
एवं संसरमाणानि जीवान्यहमदृष्टवान्। यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥१२-२७०-२०॥
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च। सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥१२-२७०-२१॥
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते। गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥१२-२७०-२२॥
भीष्म उवाच॥
कालसङ्ख्यानसङ्ख्यातं सृष्टिस्थितिपरायणम्। तं भाषमाणं भगवानुशना प्रत्यभाषत ॥ भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ॥१२-२७०-२३॥
वृत्र उवाच॥
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम्। मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥१२-२७०-२४॥
गन्धानादाय भूतानां रसांश्च विविधानपि। अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥१२-२७०-२५॥
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा। अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥१२-२७०-२६॥
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः। धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥१२-२७०-२७॥
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना। ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥१२-२७०-२८॥
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः। मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥१२-२७०-२९॥
नूनं तु तस्य तपसः सावशेषं ममास्ति वै। यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥१२-२७०-३०॥
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम्। निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥१२-२७०-३१॥
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः। किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥१२-२७०-३२॥
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा। ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥१२-२७०-३३॥
इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह। मयोच्यमानं पुरुषर्षभ त्व; मनन्यचित्तः सह सोदरीयैः ॥१२-२७०-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.