Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.271
Library: Sanatkumāra elaborated on the greatness of Viṣṇu to the wise king of the Dānavas and explained to path towards liberation.
उशनोवाच॥
नमस्तस्मै भगवते देवाय प्रभविष्णवे। यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् ॥१२-२७१-१॥
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम। तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥१२-२७१-२॥
भीष्म उवाच॥
तयोः संवदतोरेवमाजगाम महामुनिः। सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥१२-२७१-३॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा। निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥१२-२७१-४॥
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत्। ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ॥१२-२७१-५॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्। विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥१२-२७१-६॥
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्। विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ॥१२-२७१-७॥
सृजत्येष महाबाहो भूतग्रामं चराचरम्। एष चाक्षिपते काले काले विसृजते पुनः ॥ अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥१२-२७१-८॥
नैष दानवता शक्यस्तपसा नैव चेज्यया। सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥१२-२७१-९॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः। निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥१२-२७१-१०॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्। बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह ॥१२-२७१-११॥
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा। यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥१२-२७१-१२॥
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः। बहु यत्नेन महता दोषनिर्हरणं तथा ॥१२-२७१-१३॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्। न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥१२-२७१-१४॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः। विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥१२-२७१-१५॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु। बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥१२-२७१-१६॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानव। यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥१२-२७१-१७॥
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो। तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥१२-२७१-१८॥
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः। स वै सृजति भूतानि स्थावराणि चराणि च ॥१२-२७१-१९॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च। एकादशविकारात्मा जगत्पिबति रश्मिभिः ॥१२-२७१-२०॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च। बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥१२-२७१-२१॥
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्। बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥१२-२७१-२२॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम। नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥१२-२७१-२३॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्। सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥१२-२७१-२४॥
अकर्मणः फलं चैव स एव परमव्ययः। छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥१२-२७१-२५॥
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः। स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥१२-२७१-२६॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः। पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः ॥१२-२७१-२७॥
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा। ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ॥ एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥१२-२७१-२८॥
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्। जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥१२-२७१-२९॥
संहारविक्षेपसहस्रकोटी; स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये। प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य ॥१२-२७१-३०॥
वाप्यः पुनर्योजनविस्तृतास्ताः; क्रोशं च गम्भीरतयावगाढाः। आयामतः पञ्चशताश्च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः ॥१२-२७१-३१॥
वाप्या जलं क्षिप्यति वालकोट्या; त्वह्ना सकृच्चाप्यथ न द्वितीयम्। तासां क्षये विद्धि कृतं विसर्गं; संहारमेकं च तथा प्रजानाम् ॥१२-२७१-३२॥
षड्जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलमथास्य मध्यम्। रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् ॥१२-२७१-३३॥
परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र। गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिमुपैति जीवः ॥१२-२७१-३४॥
गतिं च यां दर्शनमाह देवो; गत्वा शुभं दर्शनमेव चाह। गतिः पुनर्वर्णकृता प्रजानां; वर्णस्तथा कालकृतोऽसुरेन्द्र ॥१२-२७१-३५॥
शतं सहस्राणि चतुर्दशेह; परा गतिर्जीवगुणस्य दैत्य। आरोहणं तत्कृतमेव विद्धि; स्थानं तथा निःसरणं च तेषाम् ॥१२-२७१-३६॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा; स मज्जते नरके पच्यमानः। स्थानं तथा दुर्गतिभिस्तु तस्य; प्रजाविसर्गान्सुबहून्वदन्ति ॥१२-२७१-३७॥
शतं सहस्राणि ततश्चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात्। स चैव तस्मिन्निवसत्यनीशो; युगक्षये तमसा संवृतात्मा ॥१२-२७१-३८॥
स वै यदा सत्त्वगुणेन युक्त; स्तमो व्यपोहन्घटते स्वबुद्ध्या। स लोहितं वर्णमुपैति नीलो; मनुष्यलोके परिवर्तते च ॥१२-२७१-३९॥
स तत्र संहारविसर्गमेव; स्वकर्मजैर्बन्धनैः क्लिश्यमानः। ततः स हारिद्रमुपैति वर्णं; संहारविक्षेपशते व्यतीते ॥१२-२७१-४०॥
हारिद्रवर्णस्तु प्रजाविसर्गा; न्सहस्रशस्तिष्ठति सञ्चरन्वै। अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि ॥१२-२७१-४१॥
गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव। विमुक्तमेनं निरयाच्च विद्धि; सर्वेषु चान्येषु च सम्भवेषु ॥१२-२७१-४२॥
स देवलोके विहरत्यभीक्ष्णं; ततश्च्युतो मानुषतामुपैति। संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्नमृतत्वमेति ॥१२-२७१-४३॥
सोऽस्मादथ भ्रश्यति कालयोगा; त्कृष्णे तले तिष्ठति सर्वकष्टे। यथा त्वयं सिध्यति जीवलोक; स्तत्तेऽभिधास्याम्यसुरप्रवीर ॥१२-२७१-४४॥
दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रोऽथ तथैव शुक्लः। संश्रित्य सन्धावति शुक्लमेत; मष्टापरानर्च्यतमान्स लोकान् ॥१२-२७१-४५॥
अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम्। शुक्लस्य वर्णस्य परा गतिर्या; त्रीण्येव रुद्धानि महानुभाव ॥१२-२७१-४६॥
संहारविक्षेपमनिष्टमेकं; चत्वारि चान्यानि वसत्यनीशः। षष्ठस्य वर्णस्य परा गतिर्या; सिद्धा विशिष्टस्य गतक्लमस्य ॥१२-२७१-४७॥
सप्तोत्तरं तेषु वसत्यनीशः; संहारविक्षेपशतं सशेषम्। तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति ॥१२-२७१-४८॥
तस्मादुपावृत्य ततः क्रमेण; सोऽग्रे स्म सन्तिष्ठति भूतसर्गम्। स सप्तकृत्वश्च परैति लोका; न्संहारविक्षेपकृतप्रवासः ॥१२-२७१-४९॥
सप्तैव संहारमुपप्लवानि; सम्भाव्य सन्तिष्ठति सिद्धलोके। ततोऽव्ययं स्थानमनन्तमेति; देवस्य विष्णोरथ ब्रह्मणश्च ॥ शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव ॥१२-२७१-५०॥
संहारकाले परिदग्धकाया; ब्रह्माणमायान्ति सदा प्रजा हि। चेष्टात्मनो देवगणाश्च सर्वे; ये ब्रह्मलोकादमराः स्म तेऽपि ॥१२-२७१-५१॥
प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्येव सरन्ति जीवाः। निःशेषाणां तत्पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः ॥१२-२७१-५२॥
ये तु च्युताः सिद्धलोकात्क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या। जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण ॥१२-२७१-५३॥
स यावदेवास्ति सशेषभुक्ते; प्रजाश्च देव्यौ च तथैव शुक्ले। तावत्तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपमेतत् ॥१२-२७१-५४॥
शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन्। ततोऽव्ययं स्थानमुपैति ब्रह्म; दुष्प्रापमभ्येति स शाश्वतं वै ॥ इत्येतदाख्यातमहीनसत्त्व; नारायणस्येह बलं मया ते ॥१२-२७१-५५॥
वृत्र उवाच॥
एवं गते मे न विषादोऽस्ति कश्चित् सम्यक्च पश्यामि वचस्तवैतत्। श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥१२-२७१-५६॥
प्रवृत्तमेतद्भगवन्महर्षे; महाद्युतेश्चक्रमनन्तवीर्यम्। विष्णोरनन्तस्य सनातनं त; त्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ॥१२-२७१-५७॥
स वै महात्मा पुरुषोत्तमो वै; तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥१२-२७१-५७॥
भीष्म उवाच॥
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्। योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥१२-२७१-५८॥
युधिष्ठिर उवाच॥
अयं स भगवान्देवः पितामह जनार्दनः। सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥१२-२७१-५९॥
भीष्म उवाच॥
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा। तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः ॥१२-२७१-६०॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम्। तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥१२-२७१-६१॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते। स शेते भगवानप्सु योऽसावतिबलः प्रभुः ॥ तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥१२-२७१-६२॥
सर्वाण्यशून्यानि करोत्यनन्तः; सनत्कुमारः सञ्चरते च लोकान्। स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत्सर्वमिदं विचित्रम् ॥१२-२७१-६३॥
युधिष्ठिर उवाच॥
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः। शुभा तस्मात्स सुखितो न शोचति पितामह ॥१२-२७१-६४॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ। तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥१२-२७१-६५॥
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव। तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥१२-२७१-६६॥
वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे। कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥१२-२७१-६७॥
भीष्म उवाच॥
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः। विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥१२-२७१-६८॥
प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा। सुखेन संयास्यथ सिद्धसङ्ख्यां; मा वो भयं भूद्विमलाः स्थ सर्वे ॥१२-२७१-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.