12.276
युधिष्ठिर उवाच॥
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः। अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥१२-२७६-१॥
भीष्म उवाच॥
गुरुपूजा च सततं वृद्धानां पर्युपासनम्। श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥१२-२७६-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गालवस्य च संवादं देवर्षेर्नारदस्य च ॥१२-२७६-३॥
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्। श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत् ॥१२-२७६-४॥
यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु। भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम् ॥१२-२७६-५॥
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति। अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥१२-२७६-६॥
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः। यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥१२-२७६-७॥
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः। इदं श्रेय इदं श्रेय इति नानाप्रधाविताः ॥१२-२७६-८॥
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः। स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे ॥१२-२७६-९॥
शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा। शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥१२-२७६-१०॥
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम्। ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ॥१२-२७६-११॥
नारद उवाच॥
आश्रमास्तात चत्वारो यथासङ्कल्पिताः पृथक्। तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥१२-२७६-१२॥
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः। नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् ॥ नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् ॥१२-२७६-१३॥
ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम्। यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ॥१२-२७६-१४॥
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्। सङ्ग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ॥१२-२७६-१५॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता। सद्भिश्च समुदाचारः श्रेय एतदसंशयम् ॥१२-२७६-१६॥
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्। वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ॥१२-२७६-१७॥
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि। असन्त्यागश्च भृत्यानां श्रेय एतदसंशयम् ॥१२-२७६-१८॥
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्। यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ॥१२-२७६-१९॥
अहङ्कारस्य च त्यागः प्रणयस्य च निग्रहः। सन्तोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ॥१२-२७६-२०॥
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च। विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम् ॥१२-२७६-२१॥
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्। नात्यर्थमुपसेवेत श्रेयसोऽर्थी परन्तप ॥१२-२७६-२२॥
नक्तञ्चर्या दिवास्वप्नमालस्यं पैशुनं मदम्। अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् ॥१२-२७६-२३॥
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया। स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ॥१२-२७६-२४॥
निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविनो नराः। दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥१२-२७६-२५॥
अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात्। गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥१२-२७६-२६॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्। विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः ॥१२-२७६-२७॥
अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः। तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥१२-२७६-२८॥
एवमादीनि चान्यानि परित्यक्तानि मेधया। ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥१२-२७६-२९॥
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया। अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥१२-२७६-३०॥
असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति। दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥१२-२७६-३१॥
मूढानामवलिप्तानामसारं भाषितं बहु। दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥१२-२७६-३२॥
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्। प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् ॥१२-२७६-३३॥
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः। ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् ॥१२-२७६-३४॥
ततो वासं परीक्षेत धर्मनित्येषु साधुषु। मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥१२-२७६-३५॥
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्। न तत्र वासं कुर्वीत श्रेयोर्थी वै कथञ्चन ॥१२-२७६-३६॥
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः। पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥१२-२७६-३७॥
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा। तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः ॥१२-२७६-३८॥
अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः। भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् ॥१२-२७६-३९॥
यत्रागमयमानानामसत्कारेण पृच्छताम्। प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ॥१२-२७६-४०॥
शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता। यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ॥१२-२७६-४१॥
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्। आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः ॥१२-२७६-४२॥
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः। प्रदीप्तमिव शैलान्तं कस्तं देशं न सन्त्यजेत् ॥१२-२७६-४३॥
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः। चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥१२-२७६-४४॥
धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः। न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥१२-२७६-४५॥
कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः। व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥१२-२७६-४६॥
येन खट्वां समारूढः कर्मणानुशयी भवेत्। आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥१२-२७६-४७॥
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः। कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥१२-२७६-४८॥
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः। याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥१२-२७६-४९॥
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः। अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥१२-२७६-५०॥
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्। त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥१२-२७६-५१॥
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः। स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥१२-२७६-५२॥
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु। चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥१२-२७६-५३॥
उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु। अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥१२-२७६-५४॥
यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता। अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥१२-२७६-५५॥
तथाशीला हि राजानः सर्वान्विषयवासिनः। श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते ॥१२-२७६-५६॥
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्। न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः ॥१२-२७६-५७॥
एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः। तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥१२-२७६-५८॥