Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.275
युधिष्ठिर उवाच॥
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा। उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह ॥१२-२७५-१॥
भीष्म उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं समङ्गस्य च भारत ॥१२-२७५-२॥
नारद उवाच॥
उरसेव प्रणमसे बाहुभ्यां तरसीव च। सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ॥१२-२७५-३॥
उद्वेगं नेह ते किञ्चित्सुसूक्ष्ममपि लक्षये। नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ॥१२-२७५-४॥
समङ्ग उवाच॥
भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद। तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ॥१२-२७५-५॥
उपक्रमानहं वेद पुनरेव फलोदयान्। लोके फलानि चित्राणि ततो न विमना ह्यहम् ॥१२-२७५-६॥
अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद। अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ॥१२-२७५-७॥
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः। बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय ॥१२-२७५-८॥
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा। शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ॥१२-२७५-९॥
यदा न शोचेमहि किं नु न स्या; द्धर्मेण वा नारद कर्मणा वा। कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति ॥१२-२७५-१०॥
यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः। मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ॥१२-२७५-११॥
मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः। न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव ॥१२-२७५-१२॥
भावात्मकं सम्परिवर्तमानं; न मादृशः सञ्ज्वरं जातु कुर्यात्। इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा ॥१२-२७५-१३॥
समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम्। न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् ॥१२-२७५-१४॥
न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम्। दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् ॥१२-२७५-१५॥
नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम्। धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् ॥१२-२७५-१६॥
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः। उत्सेको नरकायैव तस्मात्तं सन्त्यजाम्यहम् ॥१२-२७५-१७॥
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः। पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ॥१२-२७५-१८॥
अर्थकामौ परित्यज्य विशोको विगतज्वरः। तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम् ॥१२-२७५-१९॥
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन। पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम् ॥१२-२७५-२०॥
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्। तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते ॥१२-२७५-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.