12.277
युधिष्ठिर उवाच॥
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः। नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥१२-२७७-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥१२-२७७-२॥
सगर उवाच॥
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते। कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥१२-२७७-३॥
भीष्म उवाच॥
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः। विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥१२-२७७-४॥
सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति। प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥१२-२७७-५॥
सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम्। स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥१२-२७७-६॥
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम। सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥१२-२७७-७॥
सम्भाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च। समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥१२-२७७-८॥
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्। ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥१२-२७७-९॥
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्। इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥१२-२७७-१०॥
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्। उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥१२-२७७-११॥
एष तावत्समासेन तव सङ्कीर्तितो मया। मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥१२-२७७-१२॥
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः। सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥१२-२७७-१३॥
आहारसञ्चयाश्चैव तथा कीटपिपीलिकाः। असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥१२-२७७-१४॥
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना। इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥१२-२७७-१५॥
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते। सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥१२-२७७-१६॥
भोजनाच्छादने चैव मात्रा पित्रा च सङ्ग्रहम्। स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥१२-२७७-१७॥
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्। लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥१२-२७७-१८॥
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा। को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥१२-२७७-१९॥
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः। कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥१२-२७७-२०॥
जीवन्तमपि चैवैनं भरणे रक्षणे तथा। असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥१२-२७७-२१॥
यदा मृतश्च स्वजनं न ज्ञास्यसि कथञ्चन। सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥१२-२७७-२२॥
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः। स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥१२-२७७-२३॥
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः। मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥१२-२७७-२४॥
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः। क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥१२-२७७-२५॥
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः। न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥१२-२७७-२६॥
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा। भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥१२-२७७-२७॥
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः। यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥१२-२७७-२८॥
सम्भवं च विनाशं च भूतानां चेष्टितं तथा। यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥१२-२७७-२९॥
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु। प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥१२-२७७-३०॥
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्। अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥१२-२७७-३१॥
यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते। यश्चाप्यल्पेन सन्तुष्टो लोकेऽस्मिन्मुक्त एव सः ॥१२-२७७-३२॥
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति। न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥१२-२७७-३३॥
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः। शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥१२-२७७-३४॥
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च। आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥१२-२७७-३५॥
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति। तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥१२-२७७-३६॥
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ। इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥१२-२७७-३७॥
रक्तमूत्रपुरीषाणां दोषाणां सञ्चयं तथा। शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥१२-२७७-३८॥
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च। कुब्जभावं च जरया यः पश्यति स मुच्यते ॥१२-२७७-३९॥
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा। बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥१२-२७७-४०॥
गतानृषींस्तथा देवानसुरांश्च तथा गतान्। लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥१२-२७७-४१॥
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः। ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥१२-२७७-४२॥
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा। दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥१२-२७७-४३॥
अपत्यानां च वैगुण्यं जनं विगुणमेव च। पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥१२-२७७-४४॥
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः। असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥१२-२७७-४५॥
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्। गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥१२-२७७-४६॥
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः। मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥१२-२७७-४७॥