12.279
युधिष्ठिर उवाच॥
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे। न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥१२-२७९-१॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम। श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥१२-२७९-२॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः। पराशरं महात्मानं पप्रच्छ जनको नृपः ॥१२-२७९-३॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च। यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥१२-२७९-४॥
ततः स तपसा युक्तः सर्वधर्मविधानवित्। नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥१२-२७९-५॥
धर्म एव कृतः श्रेयानिह लोके परत्र च। तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥१२-२७९-६॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते। धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ॥ तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥१२-२७९-७॥
चतुर्विधा हि लोकस्य यात्रा तात विधीयते। मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥१२-२७९-८॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः। दशार्धप्रविभक्तानां भूतानां बहुधा गतिः ॥१२-२७९-९॥
सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते। तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः ॥१२-२७९-१०॥
नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते। सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥१२-२७९-११॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्। स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥१२-२७९-१२॥
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः। ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥१२-२७९-१३॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः। शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥१२-२७९-१४॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥१२-२७९-१५॥
निरन्तरं च मिश्रं च फलते कर्म पार्थिव। कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥१२-२७९-१६॥
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति। मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥१२-२७९-१७॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते। सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥१२-२७९-१८॥
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता। ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥१२-२७९-१९॥
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत्। नित्यं मनःसमाधाने प्रयतेत विचक्षणः ॥१२-२७९-२०॥
नायं परस्य सुकृतं दुष्कृतं वापि सेवते। करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥१२-२७९-२१॥
सुखदुःखे समाधाय पुमानन्येन गच्छति। अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव ॥१२-२७९-२२॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः। यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥१२-२७९-२३॥
भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च। विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥१२-२७९-२४॥
रागी मुक्तः पचमानोऽऽत्महेतो; र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्। एते सर्वे शोच्यतां यान्ति राज; न्यश्चायुक्तः स्नेहहीनः प्रजासु ॥१२-२७९-२५॥