12.278
युधिष्ठिर उवाच॥
तिष्ठते मे सदा तात कौतूहलमिदं हृदि। तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥१२-२७८-१॥
कथं देवर्षिरुशना सदा काव्यो महामतिः। असुराणां प्रियकरः सुराणामप्रिये रतः ॥१२-२७८-२॥
वर्धयामास तेजश्च किमर्थममितौजसाम्। नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥१२-२७८-३॥
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः। ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥१२-२७८-४॥
न याति च स तेजस्वी मध्येन नभसः कथम्। एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥१२-२७८-५॥
भीष्म उवाच॥
शृणु राजन्नवहितः सर्वमेतद्यथातथम्। यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ॥१२-२७८-६॥
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः। असुराणां प्रियकरो निमित्ते करुणात्मके ॥१२-२७८-७॥
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च। प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥१२-२७८-८॥
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः। रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥१२-२७८-९॥
हृते धने ततः शर्म न लेभे धनदस्तथा। आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् ॥१२-२७८-१०॥
निवेदयामास तदा शिवायामिततेजसे। देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥१२-२७८-११॥
कुबेर उवाच॥
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु। योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः ॥१२-२७८-१२॥
भीष्म उवाच॥
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः। संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥१२-२७८-१३॥
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम्। उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् ॥१२-२७८-१४॥
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः। गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः ॥१२-२७८-१५॥
सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम्। उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥१२-२७८-१६॥
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना। ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥१२-२७८-१७॥
आनतेनाथ शूलेन पाणिनामिततेजसा। पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥१२-२७८-१८॥
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः। आस्यं विवृत्य ककुदी पाणिं सम्प्राक्षिपच्छनैः ॥१२-२७८-१९॥
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः। व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥१२-२७८-२०॥
युधिष्ठिर उवाच॥
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः। जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ॥१२-२७८-२१॥
भीष्म उवाच॥
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः। वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥१२-२७८-२२॥
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात्। ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत ॥१२-२७८-२३॥
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम्। तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥१२-२७८-२४॥
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः। महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥१२-२७८-२५॥
स तेनाढ्यो महायोगी तपसा च धनेन च। व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥१२-२७८-२६॥
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्। उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥१२-२७८-२७॥
तुष्टाव च महायोगी देवं तत्रस्थ एव च। निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत ॥१२-२७८-२८॥
उशना तु तदोवाच जठरस्थो महामुनिः। प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ॥१२-२७८-२९॥
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्। इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुङ्गवः ॥१२-२७८-३०॥
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः। पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥१२-२७८-३१॥
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्। कार्येण तेन नभसो नागच्छत च मध्यतः ॥१२-२७८-३२॥
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा। भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥१२-२७८-३३॥
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम्। पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः ॥१२-२७८-३४॥
देव्युवाच॥
हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः। न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति ॥१२-२७८-३५॥
भीष्म उवाच॥
ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत्। गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥१२-२७८-३६॥
ततः प्रणम्य वरदं देवं देवीमुमां तथा। उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥१२-२७८-३७॥
एतत्ते कथितं तात भार्गवस्य महात्मनः। चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥१२-२७८-३८॥