Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.280
पराशर उवाच॥
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः। रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् ॥१२-२८०-१॥
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते। द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥१२-२८०-२॥
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते। उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥१२-२८०-३॥
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति। न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥१२-२८०-४॥
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा। दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥१२-२८०-५॥
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत्। पापं हि कर्म फलति पापमेव स्वयं कृतम् ॥ तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥१२-२८०-६॥
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्। न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥१२-२८०-७॥
किङ्कष्टमनुपश्यामि फलं पापस्य कर्मणः। प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥१२-२८०-८॥
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते। तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥१२-२८०-९॥
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्। प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥१२-२८०-१०॥
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति। प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥१२-२८०-११॥
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति। ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥१२-२८०-१२॥
तथा कामकृतं चास्य विहिंसैवापकर्षति। इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥१२-२८०-१३॥
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्। गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥१२-२८०-१४॥
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्। बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥१२-२८०-१५॥
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्। अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥१२-२८०-१६॥
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा। नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥१२-२८०-१७॥
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः। करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥१२-२८०-१८॥
नवे कपाले सलिलं संन्यस्तं हीयते यथा। नवेतरे तथाभावं प्राप्नोति सुखभावितम् ॥१२-२८०-१९॥
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते। वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥१२-२८०-२०॥
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते। नसमानीह हीनानि तानि पुण्यतमान्यपि ॥१२-२८०-२१॥
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम्। अग्निश्चेयो बहुभिश्चापि यज्ञै; रन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥१२-२८०-२२॥
दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत्। गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र ॥१२-२८०-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.