Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.288
युधिष्ठिर उवाच॥
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह। विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥१२-२८८-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥१२-२८८-२॥
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः। स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥१२-२८८-३॥
साध्या ऊचुः॥
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे। पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥१२-२८८-४॥
श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन्। किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन् ॥१२-२८८-५॥
तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम्। यत्कृत्वा वै पुरुषः सर्वबन्धै; र्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥१२-२८८-६॥
हंस उवाच॥
इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः। ग्रन्थीन्विमुच्य हृदयस्य सर्वा; न्प्रियाप्रिये स्वं वशमानयीत ॥१२-२८८-७॥
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥१२-२८८-८॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥१२-२८८-९॥
परश्चेदेनमतिवादबाणै; र्भृशं विध्येच्छम एवेह कार्यः। संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य ॥१२-२८८-१०॥
क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम्। अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् ॥१२-२८८-११॥
आक्रुश्यमानो न वदामि किं चि; त्क्षमाम्यहं ताड्यमानश्च नित्यम्। श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम् ॥१२-२८८-१२॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः। दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥१२-२८८-१३॥
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम्। एतान्वेगान्यो विषहत्युदीर्णां; स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥१२-२८८-१४॥
अक्रोधनः क्रुध्यतां वै विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषान्मानुषो वै विशिष्ट; स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ॥१२-२८८-१५॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥१२-२८८-१६॥
यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात्। पापं च यो नेच्छति तस्य हन्तु; स्तस्मै देवाः स्पृहयन्ते सदैव ॥१२-२८८-१७॥
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च। विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥१२-२८८-१८॥
सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः। न चाप्यहं लिप्समानः परैमि; न चैव किञ्चिद्विषमेण यामि ॥१२-२८८-१९॥
नाहं शप्तः प्रतिशपामि किं चि; द्दमं द्वारं ह्यमृतस्येह वेद्मि। गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ॥१२-२८८-२०॥
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः। विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥१२-२८८-२१॥
यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः। यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा ॥१२-२८८-२२॥
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्। यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥१२-२८८-२३॥
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा। वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥१२-२८८-२४॥
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः। तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥१२-२८८-२५॥
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः। सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥१२-२८८-२६॥
यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति। वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य ॥१२-२८८-२७॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः। उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥१२-२८८-२८॥
सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः। स्वाध्यायनित्योऽस्पृहयन्परेषा; मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥१२-२८८-२९॥
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान्। न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ॥१२-२८८-३०॥
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन्। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥१२-२८८-३१॥
यादृशैः संनिवसति यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥१२-२८८-३२॥
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ॥१२-२८८-३३॥
सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम्। नेन्दुः समः स्यादसमो हि वायु; रुच्चावचं विषयं यः स वेद ॥१२-२८८-३४॥
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे। तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥१२-२८८-३५॥
शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम्। अपेतदोषानिति तान्विदित्वा; दूराद्देवाः सम्परिवर्जयन्ति ॥१२-२८८-३६॥
न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा। सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह सम्भजन्ते ॥१२-२८८-३७॥
अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम्। धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥१२-२८८-३८॥
साध्या ऊचुः॥
केनायमावृतो लोकः केन वा न प्रकाशते। केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥१२-२८८-३९॥
हंस उवाच॥
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते। लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥१२-२८८-४०॥
साध्या ऊचुः॥
कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते। कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति ॥१२-२८८-४१॥
हंस उवाच॥
प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते। प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति ॥१२-२८८-४२॥
साध्या ऊचुः॥
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते। असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥१२-२८८-४३॥
हंस उवाच॥
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते। असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ॥१२-२८८-४४॥
भीष्म उवाच॥
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः। क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥१२-२८८-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.