Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.287
भीष्म उवाच॥
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः। पराशरं महात्मानं धर्मे परमनिश्चयम् ॥१२-२८७-१॥
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति। क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ॥१२-२८७-२॥
पराशर उवाच॥
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा। चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥१२-२८७-३॥
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते। दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् ॥१२-२८७-४॥
यो ददाति सहस्राणि गवामश्वशतानि च। अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥१२-२८७-५॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्। संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥१२-२८७-६॥
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत्। अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ॥१२-२८७-७॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति। कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ॥ न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ॥१२-२८७-८॥
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते। शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥१२-२८७-९॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा। विषये वर्तमानोऽपि न स पापेन युज्यते ॥१२-२८७-१०॥
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति। पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ॥१२-२८७-११॥
यथा भानुगतं तेजो मणिः शुद्धः समाधिना। आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥१२-२८७-१२॥
यथा तिलानामिह पुष्पसंश्रया; त्पृथक्पृथग्याति गुणोऽतिसौम्यताम्। तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते ॥१२-२८७-१३॥
जहाति दारानिहते न सम्पदः; सदश्वयानं विविधाश्च याः क्रियाः। त्रिविष्टपे जातमतिर्यदा नर; स्तदास्य बुद्धिर्विषयेषु भिद्यते ॥१२-२८७-१४॥
प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न। स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते ॥१२-२८७-१५॥
सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः। कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥१२-२८७-१६॥
न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते। क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते ॥१२-२८७-१७॥
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति। तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥१२-२८७-१८॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्। अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥१२-२८७-१९॥
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम्। तथात्मा पुरुषस्येह मनसा परिमुच्यते ॥ मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ॥१२-२८७-२०॥
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते। इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ॥१२-२८७-२१॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्। प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥१२-२८७-२२॥
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः। तथा शरीरं तपसा तप्तं विषयमश्नुते ॥१२-२८७-२३॥
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्। यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥१२-२८७-२४॥
नीहारेण हि संवीतः शिश्नोदरपरायणः। जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥१२-२८७-२५॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्। तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ॥१२-२८७-२६॥
अहोरात्रमये लोके जरारूपेण सञ्चरन्। मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥१२-२८७-२७॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते। नाकृतं लभते कश्चित्किञ्चिदत्र प्रियाप्रियम् ॥१२-२८७-२८॥
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च। शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥१२-२८७-२९॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति। दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥१२-२८७-३०॥
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना। तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ॥१२-२८७-३१॥
यथा समुद्रमभितः संस्यूताः सरितोऽपराः। तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥१२-२८७-३२॥
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः। प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥१२-२८७-३३॥
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः। बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥१२-२८७-३४॥
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः। परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥१२-२८७-३५॥
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः। भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ॥१२-२८७-३६॥
न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते। दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥१२-२८७-३७॥
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा। अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते ॥१२-२८७-३८॥
सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः। उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा ॥१२-२८७-३९॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति। न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥१२-२८७-४०॥
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्। न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥१२-२८७-४१॥
आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया। यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति ॥१२-२८७-४२॥
सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्। मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता; दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥१२-२८७-४३॥
स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसञ्चयम्। नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा ॥१२-२८७-४४॥
भीष्म उवाच॥
इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा। श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥१२-२८७-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.