Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.289
युधिष्ठिर उवाच॥
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि। तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ॥१२-२८९-१॥
भीष्म उवाच॥
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः। वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ॥१२-२८९-२॥
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन। वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ॥१२-२८९-३॥
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः। विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥१२-२८९-४॥
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा। एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥१२-२८९-५॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्। शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ॥१२-२८९-६॥
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः। उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥१२-२८९-७॥
उभे चैते मते ज्ञाने नृपते शिष्टसंमते। अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥१२-२८९-८॥
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ। व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ॥१२-२८९-९॥
युधिष्ठिर उवाच॥
यदि तुल्यं व्रतं शौचं दया चात्र पितामह। तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥१२-२८९-१०॥
भीष्म उवाच॥
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्। योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ॥१२-२८९-११॥
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्। प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥१२-२८९-१२॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः। प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥१२-२८९-१३॥
लोभजानि तथा राजन्बन्धनानि बलान्विताः। छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ॥१२-२८९-१४॥
अबलाश्च मृगा राजन्वागुरासु तथापरे। विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥१२-२८९-१५॥
बलहीनाश्च कौन्तेय यथा जालगता झषाः। अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ॥१२-२८९-१६॥
यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम। तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥१२-२८९-१७॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप। अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥१२-२८९-१८॥
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः। आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ॥१२-२८९-१९॥
स एव च यदा राजन्वह्निर्जातबलः पुनः। समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ॥१२-२८९-२०॥
तद्वज्जातबलो योगी दीप्ततेजा महाबलः। अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥१२-२८९-२१॥
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः। बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥१२-२८९-२२॥
तदेव च यथा स्रोतो विष्टम्भयति वारणः। तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥१२-२८९-२३॥
विशन्ति चावशाः पार्थ योगा योगबलान्विताः। प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ॥१२-२८९-२४॥
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः। ईशते नृपते सर्वे योगस्यामिततेजसः ॥१२-२८९-२५॥
आत्मनां च सहस्राणि बहूनि भरतर्षभ। योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥१२-२८९-२६॥
प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत्। सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ॥१२-२८९-२७॥
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव। विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् ॥१२-२८९-२८॥
बलानि योगे प्रोक्तानि मयैतानि विशां पते। निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥१२-२८९-२९॥
आत्मनश्च समाधाने धारणां प्रति चाभिभो। निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥१२-२८९-३०॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः। युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥१२-२८९-३१॥
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्। पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः ॥१२-२८९-३२॥
युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम्। करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥१२-२८९-३३॥
यथा च नावं कौन्तेय कर्णधारः समाहितः। महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥१२-२८९-३४॥
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित्। दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥१२-२८९-३५॥
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः। देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥१२-२८९-३६॥
तथैव नृपते योगी धारणासु समाहितः। प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥१२-२८९-३७॥
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः। पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ॥१२-२८९-३८॥
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः। दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ॥१२-२८९-३९॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः। आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते ॥१२-२८९-४०॥
स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम्। उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥१२-२८९-४१॥
युधिष्ठिर उवाच॥
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत। योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥१२-२८९-४२॥
भीष्म उवाच॥
कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे। स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥१२-२८९-४३॥
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम। एकारामो विशुद्धात्मा योगी बलमवाप्नुयात् ॥१२-२८९-४४॥
पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा। अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥१२-२८९-४५॥
अखण्डमपि वा मासं सततं मनुजेश्वर। उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात् ॥१२-२८९-४६॥
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च। भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ॥१२-२८९-४७॥
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव। स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम ॥१२-२८९-४८॥
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना। वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥१२-२८९-४९॥
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम्। न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥१२-२८९-५०॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम्। श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥१२-२८९-५१॥
अभक्तमटवीप्रायं दावदग्धमहीरुहम्। पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥१२-२८९-५२॥
योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः। क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥१२-२८९-५३॥
सुस्थेयं क्षुरधारासु निशितासु महीपते। धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥१२-२८९-५४॥
विपन्ना धारणास्तात नयन्ति नशुभां गतिम्। नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥१२-२८९-५५॥
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि। मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥१२-२८९-५६॥
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम्। परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु ॥१२-२८९-५७॥
परं हि तद्ब्रह्म महन्महात्म; न्ब्रह्माणमीशं वरदं च विष्णुम्। भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान् ॥१२-२८९-५८॥
तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च। सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥१२-२८९-५९॥
ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च। शैलांश्च कृत्स्नानुदधींश्च घोरा; न्नदीश्च सर्वाः सवनान्घनांश्च ॥१२-२८९-६०॥
नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च। परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः ॥१२-२८९-६१॥
कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम्। योगान्स सर्वानभिभूय मर्त्या; न्नारायणात्मा कुरुते महात्मा ॥१२-२८९-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.