Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.290
युधिष्ठिर उवाच॥
सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः। योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥१२-२९०-१॥
साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते। त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥१२-२९०-२॥
भीष्म उवाच॥
शृणु मे त्वमिदं शुद्धं साङ्ख्यानां विदितात्मनाम्। विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ॥१२-२९०-३॥
यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ। गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥१२-२९०-४॥
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप। मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥१२-२९०-५॥
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा। विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥१२-२९०-६॥
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप। सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥१२-२९०-७॥
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा। आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥१२-२९०-८॥
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान्। विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ॥१२-२९०-९॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः। सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥१२-२९०-१०॥
प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम्। तिर्यक्च पततां दुःखं पततां नरके च यत् ॥१२-२९०-११॥
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत। वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ॥१२-२९०-१२॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप। साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥१२-२९०-१३॥
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा। तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥१२-२९०-१४॥
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा। बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ॥१२-२९०-१५॥
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः। मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ॥१२-२९०-१६॥
ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभैः। प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम् ॥१२-२९०-१७॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च। शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ॥१२-२९०-१८॥
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्। मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ॥१२-२९०-१९॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्। अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ॥१२-२९०-२०॥
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्। नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥१२-२९०-२१॥
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम्। रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥१२-२९०-२२॥
सक्तमात्मानमीशे च देवे नारायणे तथा। देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥१२-२९०-२३॥
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः। स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ॥१२-२९०-२४॥
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते। द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥१२-२९०-२५॥
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्। प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥१२-२९०-२६॥
अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः। सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥१२-२९०-२७॥
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान्। सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप ॥१२-२९०-२८॥
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान्। ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ॥१२-२९०-२९॥
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव। गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ॥१२-२९०-३०॥
वैतरण्यां च यद्दुःखं पतितानां यमक्षये। योनीषु च विचित्रासु संसारानशुभांस्तथा ॥१२-२९०-३१॥
जठरे चाशुभे वासं शोणितोदकभाजने। श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥१२-२९०-३२॥
शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे। सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ॥१२-२९०-३३॥
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप। तामसानां च जन्तूनां रमणीयावृतात्मनाम् ॥१२-२९०-३४॥
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ। गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ॥१२-२९०-३५॥
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा। ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥१२-२९०-३६॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप। अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥१२-२९०-३७॥
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्। रागे मोहे च सम्प्राप्ते क्वचित्सत्त्वं समाश्रितम् ॥१२-२९०-३८॥
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः। दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥१२-२९०-३९॥
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः। विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥१२-२९०-४०॥
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान्। वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥१२-२९०-४१॥
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्। सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ॥ गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥१२-२९०-४२॥
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर। सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ॥१२-२९०-४३॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्। तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥१२-२९०-४४॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा। क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ॥१२-२९०-४५॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम्। क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥१२-२९०-४६॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः। क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ॥१२-२९०-४७॥
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः। क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥१२-२९०-४८॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः। जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥१२-२९०-४९॥
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः। देहविक्लवतां चैव सम्यग्विज्ञाय भारत ॥१२-२९०-५०॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्। स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥१२-२९०-५१॥
युधिष्ठिर उवाच॥
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम। एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥१२-२९०-५२॥
भीष्म उवाच॥
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः। मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ॥१२-२९०-५३॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते। एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥१२-२९०-५४॥
छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात्। सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा ॥ छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ॥१२-२९०-५५॥
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि। हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥१२-२९०-५६॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम्। चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् ॥१२-२९०-५७॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्। नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् ॥ रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥१२-२९०-५८॥
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम्। ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता नृप ॥१२-२९०-५९॥
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान्। पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ॥१२-२९०-६०॥
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम्। व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥१२-२९०-६१॥
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत। स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम ॥१२-२९०-६२॥
कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप। हिंसाशीघ्रमहावेगं नानारसमहाकरम् ॥१२-२९०-६३॥
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्। शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥१२-२९०-६४॥
अस्थिसङ्घातसङ्घाटं श्लेष्मफेनमरिंदम। दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् ॥१२-२९०-६५॥
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्। रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ॥१२-२९०-६६॥
पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम्। अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥१२-२९०-६७॥
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम्। मोक्षदुष्प्रापविषयं वडवामुखसागरम् ॥१२-२९०-६८॥
तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत। तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ॥१२-२९०-६९॥
ततस्तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः। पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप ॥१२-२९०-७०॥
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत। वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥१२-२९०-७१॥
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत। सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ॥ स तान्वहति कौन्तेय नभसः परमां गतिम् ॥१२-२९०-७२॥
नभो वहति लोकेश रजसः परमां गतिम्। रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ॥१२-२९०-७३॥
सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम्। प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥१२-२९०-७४॥
परमात्मानमासाद्य तद्भूतायतनामलाः। अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो ॥ परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ॥१२-२९०-७५॥
युधिष्ठिर उवाच॥
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः। आजन्ममरणं वा ते स्मरन्त्युत न वानघ ॥१२-२९०-७६॥
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि। त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव ॥१२-२९०-७७॥
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन्। यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥१२-२९०-७८॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप। मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ॥१२-२९०-७९॥
भीष्म उवाच॥
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसङ्कटः। बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ॥ अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् ॥१२-२९०-८०॥
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्। इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप ॥ कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥१२-२९०-८१॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु। विनश्यन्ति न संदेहः फेना इव महार्णवे ॥१२-२९०-८२॥
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन। सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥१२-२९०-८३॥
स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो। बुध्यमानो यथापूर्वमखिलेनेह भारत ॥१२-२९०-८४॥
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि। अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥१२-२९०-८५॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः। आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥१२-२९०-८६॥
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः। गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥१२-२९०-८७॥
गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा। गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः ॥१२-२९०-८८॥
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि। सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर ॥१२-२९०-८९॥
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे। शिष्या इव महात्मानमिन्द्रियाणि च तं विभो ॥१२-२९०-९०॥
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्। परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ॥१२-२९०-९१॥
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम्। परमात्मानमगुणं न निवर्तति भारत ॥१२-२९०-९२॥
शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत। आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥१२-२९०-९३॥
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना। एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥१२-२९०-९४॥
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम्। ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥१२-२९०-९५॥
अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम्। अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम् ॥१२-२९०-९६॥
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम्। कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥१२-२९०-९७॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥१२-२९०-९८॥
सर्वे विप्राश्च देवाश्च तथागमविदो जनाः। ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ॥१२-२९०-९९॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः। सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥१२-२९०-१००॥
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः। अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥१२-२९०-१०१॥
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते। जङ्गमागमसञ्ज्ञानि जङ्गमं तु विशिष्यते ॥१२-२९०-१०२॥
ज्ञानं महद्यद्धि महत्सु राज; न्वेदेषु साङ्ख्येषु तथैव योगे। यच्चापि दृष्टं विविधं पुराणं; साङ्ख्यागतं तन्निखिलं नरेन्द्र ॥१२-२९०-१०३॥
यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे। ज्ञानं च लोके यदिहास्ति किं चि; त्साङ्ख्यागतं तच्च महन्महात्मन् ॥१२-२९०-१०४॥
शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम्। तपांसि सूक्ष्माणि सुखानि चैव; साङ्ख्ये यथावद्विहितानि राजन् ॥१२-२९०-१०५॥
विपर्यये तस्य हि पार्थ देवा; न्गच्छन्ति साङ्ख्याः सततं सुखेन। तांश्चानुसञ्चार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः ॥१२-२९०-१०६॥
हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ साङ्ख्याः। ततोऽधिकं तेऽभिरता महार्हे; साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥१२-२९०-१०७॥
तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः। न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥१२-२९०-१०८॥
साङ्क्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम्। कृत्स्नं च साङ्ख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम् ॥१२-२९०-१०९॥
एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम्। स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः ॥१२-२९०-११०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.